________________
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ग्रीवा पादोनभागा स्यात स(पाद) पदमण्ड कम् । चन्द्रिकैकपदा कार्या कलशो द्विपदोदयः॥ (विश्वरं?)त्रिपदं कुर्यात् तत्रैकं भागमुत्सृजेत् । शुकनासोत्सृतं कुर्यात् सिंहस्थानविभूषितम् ।। कनकाभरणैर्युक्तः पुमान् यद्वद् विराजते । तथा प्रासादराजोऽयं शोभते चित्रकर्मभिः ॥ मञ्जरी दशधा कृत्वा कर्मशोभा प्रकल्पयेत् । भागैर्भद्रस्य विस्तारः षड्भिोगेन निर्गमः ॥ भागिक्यौ रथिके तत्र कुर्याद् भागाद विनिर्गमः । भागद्वयमितान् कर्णान् विदिक्षु च निवेशयेत् ॥ शालाश्चतस्रः कर्तव्या युक्ताः कूटैमनोरमैः । नीरान्तराणि ता अष्टौ मञ्जर्या द्विगुणान्विता ॥ कूटेऽर्धे प्रथमा भूमिः कार्या भागद्वयोच्छ्रिता । पदपादविहीनास्तु क्रमेणोपरि भूमिकाः ॥ अर्धभागोच्छ्रिता ग्रीवा भागिकोच्छ्रायमण्डकम् । भागेन कलशः कार्यः सर्वलक्षणसंयुतः ॥ विस्तारार्धन कर्तव्यो वेदीवन्धो विवन्धुरः । षड्गुणेनैव सूत्रेण मध्यरेखां समालिखेत् ॥ द्वितीयामालिखेत पञ्चगुणितेन विचक्षणः । सार्धत्रिगुणसूत्रेण++रेखां समालिखेत् ।। मञ्जरीभिर्विचित्राभिः सर्वत्रैव विराजितः । प्रासादो मन्दरः कायेः प्रमाणेनामुना शुभः ।। मन्दरं मन्दराकारं कृत्वा प्रासादमुत्तमम् । प्राप्नोतीह परं सौख्यं परत्र च शुभां गतिम् ।।
मन्दरः ॥ कथयामोऽथ कैलासमशेषसुरसेवितम् । प्रमथप्रवरैर्जुष्टं प्रासादं पुण्यवर्धनम् ।। १. 'शिखरम्' इति स्यात् ।
"Aho Shrut.Gyanam"