________________
समराङ्गणसूत्रधारे शैलेष्टकादारुमये कृतेऽस्मिस्तत्कलर्द्धिभाक् ।
(लक्षणं) मन्दरस्याथ प्रासादस्याभिधीयते ।। सिद्धिप्रदस्य पुण्य(स्य)स्तुतस्य त्रिदशैरपि । चतुरश्रीकृते क्षेत्रे++ भागविभाजिते । गर्भः कार्यश्चतुर्भागो भित्तिरेकांशविस्तृता । अन्धारिकैकमागेन बाह्यभित्तिस्तु भागिकी ॥ कोणेषु रथिकाः कार्याः पदद्वितयसंमिताः । चत्वारो मण्डपाः कार्याः पत्रिंशत्पदसंमिताः ॥ चतुर्दिशमलिन्दाश्व विधातव्याश्चतुष्पदाः । भागेन निर्गतास्ते च सर्वतः शुभलक्षणाः ॥ अस्योर्ध्वमानं कर्तव्यं विस्ताराद् द्विगुणं बुधैः । कर्णावेधश्च(१) विस्तारसीमा सर्वत्र गृह्यते ।। प्रासादे मूलमानं यत् तच्च सम्यक् प्रकल्पयेत् । द्विपदं पीठमुत्सेधात् कार्य प्रा(मुनतो?मूलतो) बहिः॥ तत् परङ्कितं कार्य सिंहैरपि च मन्दिरे । पदाध खुरकः कार्यः प्रासादसमवर्जितः(१) ।। सार्ध पदद्वयं कार्यो वेदीबन्धः सुशोभनः । चतुर्भागोन्नता जङ्घा भागाध रूपपट्टिका ।। मेखलान्तरपत्रं च कार्य पदसमुच्छ्रितम् । पदद्वयायतानि स्युः कर्णे शृङ्गाणि मानतः ॥ उच्छ्रयस्त्रिपदस्तेषां ग्रीवाण्डकलशैः सह । मूलरेखा विधातव्या कर्णकूटस्य चोपरि ॥ नवभागोच्छ्रिता शस्ता विस्तारेणाष्टभागिका । विस्तारं दशधा कृत्वा तैः पभिः स्कन्धविस्तृतैः ।। लताः पञ्च विधातव्याः श्रीवत्से कथिता यथा। . कुर्वीत पञ्चभौमं वा सप्तभौममथापि वा ॥
"Aho Shrut Gyanam"