________________
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । द्विपदं कलशं विद्यात् समवृत्तं मनोरमम् । अधोंतु दू विधातव्यं बुजं तस्य चोपरि(१) । विचित्रभूमिके(सप्तदशम्मिल्लिख्यराक्षणण्यपि?) । स्तम्भैर्विविधविन्यासैबहुभाविनिर्मितैः ॥ भूषितैः कर्मभिश्चित्रैः सर्वत्र शुभलक्षणैः । । चन्द्रशालादिसंयुक्तैस्तोरणैश्चारुचामरैः ॥ तथाक्षतमुखग्रासैघनरूपतया स्थितैः । व्यालैयालोलजिह्वश्च मकरग्राससंयुतैः ॥ मदान्धालिकुलाकीर्णगजवक्रविभूषितैः। विद्याधरवधूवृन्दैः क्रीडारम्भविभूषितैः ।। सुराणां सुन्दरीभिश्च वीणाहस्तैश्च किन्नरैः। सिद्धगन्धर्वयक्षाणां वृन्दैश्च परितः स्थितैः ॥ अप्सरोभिश्च दिव्याभिर्विमानावलिभिस्तथा । चारुचामीकरान्दोलाक्रीडासक्तैश्च (निःसराम्) । नागकन्याकदम्बैश्च सर्वतः समलङ्कृतम् । एवंविधाभिः सर्वत्र भूमिकाभिर्निरन्तरम् ।। अलङ्कृतो विधातव्यो मेरुः प्रासादनायकः । मध्य(म)द्विगुणैर्येष्ठः कर्तव्यो)मेरुरण्डकैः ॥ कनीयान् मध्यमार्धेनेत्यण्डकस्थितिरीरिता । उत्तमेवृत्तमं न्यस्येन्मध्यमेषु च मध्यमम् ॥ (अघ)मेष्वधर्म लिङ्गमेवमन्येषु धामसु । मेरोस्तु त्रिविधस्यापि लिङ्गमुत्तममृद्धिदम् ॥ अन्यथाविहित++++++दिरोषकृत् । मेरु मेरूपमं दिव्यं यः कारयति पार्थिवः ।। स प्रामोति परां भुक्तिं ++++सदाशिवाम् । मेरुं प्रदक्षिणीकृत्य काश्चनं यत्फलर्द्रिभाक् ॥ १. 'निर्भराम्' इति स्यात् ।
"Aho Shrut Gyanam"