________________
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । बाह्यभित्तीः परित्यज्य गर्भभित्तिर्विधीयते । वेदिकाकालरूपाद्यो(?) भद्रतोरणभूषितः ।। एतद्भेदसमायुक्तः प्रासादः स्याद् वसुन्धरः । भक्तया यः कारयेदेनं सोऽधितिष्ठत्यसंशयम् ॥ दुष्प्रापमपि देवानां महादेवस्य मन्दिरम् ।
वसुन्धरः ॥ प्रासादं मुद्नामानमिदानीमभिदध्महे ॥ चतुरश्रीकृते क्षेत्रे षभिर्भागेर्विभाजिते । कुर्वीत भागिकी भित्तिं गर्भ चैवास्य वर्तुलम् ॥ भद्रं चतुष्पदं वृत्तं निर्गमेण पदद्वयम् । स्वस्तिक(श्वीस्य) समाकाराश्चत्वारो रथिकाः स्मृताः ।। कर्णाश्च सर्वे कर्तव्या अश्रिभिः षड्भिराताः। जा वेदी च पीठं च (तंत्र कीर्तिः)निमानि च ॥ विस्तृतान्येकमागेन द्विभागोत्सेधवन्ति च । कणेकूटानि कुर्वीत सप(वात्र)मकराणि च ॥ भद्रं चतुष्पदायाम पञ्चभागसमुच्छ्रितम् । ग्रीवाण्डकं सकलशं कुर्यात् सार्धपदद्वयम् ॥ विस्तारं मूलमञ्जर्याः पदपदं + + मालिखेत् । उच्छ्यं दशभिभोगग्रोवाकलशसंयुतम् ।। मञ्जरीमत्र कुर्वीत (मन्नकीत?) यथा कृता। मासादं + + ++ यो भक्तितः कारयेदिमम् ॥ गायन्ति तस्य किन्नयों दिवि चन्द्रामलं यशः ।
मुदप्रासादः ॥ इदानी भ +++++-हच्छालं सु(रा)लयम् ।। कमलोद्भवसंस्थाने कुर्वीतेमं यथास्थितम् । दिक्सूत्रे कर्णमूत्रेण स्थ ++++++त् ।। १. 'मानकी' इति स्यात् । २. 'मानकीर्णे' इति स्यात् ।
"Aho Shrut Gyanam"