________________
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । लताभिनवभिर्युक्ता प्राग्वत् कार्यास्य मञ्जरी । । स्यादेकादशभिर्भागैरेतत्स्कन्धस्य विस्तृतिः ।। चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत् । कोणासन्नप्रतिरथो द्राविडोऽस्य विधीयते ॥ भूमिका नव कर्तव्याः शेष कार्य महेन्द्रवत् । पादोनभागद्वितया ग्रीवास्य च विधीयते ।। सार्धभागद्यमितं विदध्यादण्डकं शुभम् । चण्डिका साधेभागेन कलशचाण्डकैस्त्रिभिः ।। इत्येष कथितः सम्यक प्रासादः सुमुखाभिधः । य एनं कारयेद् भक्त्या स कामानश्नुतेऽखिलान् ।। भुक्त्वेह विपुलान् भोगान् पदमभ्येति शाश्वतम् ।
मुमुखप्रासादः ।। *चतुर्मुखा(?)श्रीधरादीनां ये प्रोक्तास्तान प्रचक्ष्महे ।। लक्षणैरधुना सम्यग देवानामनिवर्तनात्(१) । यत् स्याद् विजयभद्रस्य रूपं तस्मिन्नथास्थिते ॥ विजयो नाम कर्तव्यः प्रासादो देवताप्रियः । कणे केसरि + ++ सर्वतोभद्रकः पुनः ।। निवेशनीयो रथकैः सर्वलक्षणसंयुतः । तस्योपरि विधातव्या मजरी चारुरूपिणी ।। विस्तारादुदयात् तस्याः कुर्वीतैककलाधिकम् । स्कन्धस्तु षट्पदः कार्यों ग्रीवा भागसमुच्छ्रिता ॥ अण्डकं सार्धभागेन चन्द्रिकापि च तत्समा । तस्या एव हि मध्ये तु कुयोदामलसारकम् ।। सार्धभागद्वयोलोधं कलशं च तदर्ध्वतः । द्राविडैश्च वराटेश्व प्रकुर्वीतास्य मञ्जरीम् ।। १. श्वांश कैस्त्रिभिः' इति तु युक्तः पा - इद्द अन्धपात इव लक्ष्यते ।
"Aho Shrut Gyanam"