SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ૨૧ समराङ्गणसूत्रधारे चतुर्भागोच्छ्रितां जहां हीरकं चार्धभागिकम् | मेखलान्तरपत्रं च कुर्याद भागसमुच्छ्रितम् || त्रिपदं शृङ्गमुत्सेधाद ग्रीवा च कलशाण्डकम् | (त) दूर्ध्वं पञ्चविस्तारा स्यादुरोमञ्जरी शुभा ॥ ग्रीवा कार्या पदार्धेन भागेनैकेन चाण्डकम् | कलशोंऽशोच्छ्रितोऽष्टांशविस्तारा मूलमञ्जरी || तस्याः कार्यः समुत्सेधः प्रमाणान्नवभागि (का? क) | स्कन्धः पञ्चपदो ग्रीवा पादहीनं पदं भवेत् ॥ सपादं पदमञ्जर्या(?) पदस्यार्धेन चन्द्रिका | कलशो द्विपदोच्छ्रायः प्रासादे स्याद् वराटके || वराटं कारयेद्यस्तु प्रासादं भक्तिमान् नरः । स याति यानैर्विविधैः स्वर्गं प्राप्नोति चाक्षयम् ॥ वराट || सुमुखस्याधुना लक्ष्म प्र ( का मागतमुच्यते । भागैरेकोनविंशत्या चतुरश्रे विभाजिते ।। तत्रैकादशभिर्गर्भश्चतुर्भिर्भित्तिरंशकैः । कोणो द्विभागिकस्तत्र भागपादो जलान्तरम् ॥ भागार्थेन प्रवेशोऽस्य चतुरंशक विस्तृतम् । भद्रमेवं विनिर्दिष्टमभागेन निर्गतम् ॥ पादोनभागद्वितयादन्तरे कर्णभद्रयोः । त्रयः प्रतिरथाः कार्याः सहिताः सलिलान्तरैः || restore मिथस्तेषां विनिर्गमः । ऊर्ध्वमानं भवेदस्य द्विगुणं द्विकलाधिकम् || अंशकैः पञ्च (मभिचैव विधेयोऽस्य तुलोदयः । विभागैः पञ्चविंशत्या तदू मञ्जरी भवेत् ॥ वेदवन्ध विधेयोऽस्य सार्वभागचतुष्टयात् । जङ्गांशैरभिः सार्धं धः) वरण्डी तु द्विभागिका || "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy