________________
मादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । भागेनैकेन रथिका मूलच्छन्दोऽयमीरितः । ऊवमानं भवेद् यस्य द्विगुणो दशभागिकम् (१) ।। भागेनोन्छालकं विद्याद् भागाधेन तु मेखला। वेदिवन्धं न कुर्वीत जङ्घा सार्धद्विभागिका || मेखला चार्धभागेन भवेत् सान्तरपत्रका। पदानि पञ्च सार्धानि मजाः स्यात् समुच्छितिः ॥ त्रिपदः स्कन्धविस्तारो ग्रीवा वा (पदसादिकाः)। अण्डकं स्यात् पदार्धेन भागपादेन चन्द्रिका ।। भागोच्छ्रायस्तु कलशः कर्तव्यः शुभलक्षणः । मध्येन मूलमञ्जयोस्त्रिपदा भद्रमजरी ।। सार्धा+त्रिपदोच्या ग्रीवा भागसमुच्छ्रिता । अण्डकं च त्रिभागेन कलशो भागमुच्छ्रितः ।। पञ्चाण्ड: पुण्डरीकोऽयं कर्तव्यः शुभवर्धनः ।
पुण्डरीकः ॥ सुनाम(स)मथ ब्रूमो वन्दि(तोतं) देवदानवैः ।। बल्लभं लोकपालानां पुण्यमुत्कृष्टलक्षणम् । विभजेत् सप्तदशभिः समक्षेत्रं चतुर्भुजम् ।। पश्चभागायताः कोणा गर्भ: कार्यविभिः पदैः । उभयोः कोणयोर्मध्ये सप्तभागिकमन्तरम् ।। व्यक्षेपात(?) कर्णयोर्मध्ये (प्रा?प्रो)ञ्छयेत् पदमन्तरम् । भागप्रवेशं भागा(?)विस्ता(रार)मुदकान्तरम् ।। द्विपदा बाह्यभित्तिः स्यात् त्रिपदाथ भ्रमन्तिका । पश्चभागायतो मध्ये भवेत् प्रासादनायकः ॥ त्रिपदस्तस्य गर्भस्तु भित्तिर्भागं विधीयते । त्रिपदं कर्णभद्रं चं भागेनैकेन निर्गतम् ॥ पदप्रमाणकोणांस्तु च(त्वातु)रो(पवि)निवेशयेत् । 'यथा कन्दस्तथा कोणो विभागैः स विधीयते ॥
"Aho Shrut.Gyanam"