________________
समराङ्गणसूत्रधारे ++भागायता कायों सा भवेहि (१) विचक्षणः । शाला(कणेपदाद्वतु:) प्रत्यहं भागमानतः ॥ त्रिपदो रथकः कार्यो मञ्चरीणां चतुष्टयम् । चतुष्पदा भवेद भित्तिगभश्चकादशांशकः ।। चत्वारिंशत्पदाचं यावत् स्कन्धं समस्तकम् । तुलोदयः षोडशभिर्मजरी चाष्टकैस्त्रिभिः ।। चतुष्पदो वेदिबन्धो जङ्घा साष्टपदा भवेत् । भागेन भरणे व्यंशं मेखलान्तरपत्रकम् ।। उच्छ्रायतः पञ्चपदा कर्तव्या कर्णमञ्जरी । ग्रीवार्धभागेनं भवेदण्डकं चैव भागिकम् ॥ भागेन चन्द्रिकामूर्ष भागेन कलशं तथा । सपादमुदयं (शाला मजा विस्तृते!) विदुः ।। ग्रीवा पादेन भागेन सपा(दासमता?)ण्डकम् । भागाद्धि चन्द्रिका भागद्वयेन कलशोदयः॥ विस्तारो मूलमर्याः कार्यः पञ्चदशांशकः । सथा सप्तदशोच्छायः स्कन्धायामो नवांशकः ।। ग्रीवा चास्यार्धभागेन सार्यद्विपदमण्डकम् । वण्डिका सार्धभागेन त्रिपदः कलशोदयः ।। एवं यः कारयत्येनं प्रासादं नवशेखरम् ।। नवभिः सहितां खण्डैः स भुनक्ति वसुन्धराम् ॥
नक्शेखरः॥ पुण्डरीकमथ ब्रूमो यशसो वर्धनं परम् । यस्मिन् कृते स्थिरा कीर्तिर्भवेद् यावद् वसुन्धरा ॥ धतुरनं समं क्षेत्रं विभजेत् पञ्चभिः पदैः । त्रिपदं कल्पयेद गर्भ तस्य भित्तिं च भागिकाम् ।। त्रिपदं तस्य भद्रं स्यात् सार्धभागविनिर्गमम् । भद्रेषु वर्तुलं दिक्षु रथिकानां चतुष्टयम् ॥ 1. 'दांशमथ' इति स्यात् ।
Mini
-
-
"Aho Shrut Gyanam"