SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे पञ्च गर्भास्तु कर्तव्याः सममानप्रकल्पिताः । द्विगुणं चोर्ध्वमानं स्याद् ग्रीवाण्डकविवर्जिनम् ।। त्रिभिः पदैर्वदिवन्धो जङ्घा सप्तपदा भवेत् । पदत्रयेण कर्तव्यं मेखलाद्वितयं बुधः ॥ ऊर्थातो बाह्यच्छन्द(स्या?स्य) कर्तव्या कणमञ्जरी । षट्पदाः कणमञ्जयों द्विपदं कलशाण्डकम् ।। (द्वादशा सप्तविस्ताराः) कतव्या मूलमञ्जरी । त्रयोदशपदोच्ट्राया ग्रीवास्या भागमुच्छ्रिता । अण्डकं द्विपदोत्सेधं भागोत्सेधा तु चन्द्रिका । कलशस्त्रिपदोत्सेधो बतुलः शुभलक्षणः ।। यावत् क्षितिर्यावदाब्धिर्यावच्छशिदिवाकरो। कर्तास्य तावद दिव्यास्ते यावत् सुग्गुरुः सुराः ॥ सुनाभाः। माहेन्द्रमथ वक्ष्यामः प्रासादं भूषणं क्षितेः । सेवितं यक्षगन्धवः फणीन्द्रेश्च महाप्रभः ।। माहेन्द्रं पश्चदशभिर्भागैः प्राज्ञो विभाजयेत् । नवभागायतं गर्भ कुर्याद भित्ति त्रिभागिकीम् ॥ विस्तारणास्य विख्याता तज्ज्ञैः शाला पदत्रयम् । शालायाः पार्श्वयोः कार्यों रथौ सार्धपदा बुधैः ।। रथशालान्तरेणैव कर्तव्यमुदकान्तरम् । (स्थस्याप्रातः पश्चारि गृहकार्य पदार्थकम्?) ॥ प्रत्यङ्गानि पदं साधु++++जलान्तरम् । द्विपदं कणेमानं च कार्य कोणचतुष्टयं?ये) ॥ भागेनान्योन्यमेतेषां विधातव्यो विनिर्गमः । ऊर्ध्वमानं तु कर्तव्यं द्विगुणं सीमविस्तृतेः ॥ तुलोदयो दशांशः स्याद् विंशत्यंशा च मञ्जरी । .. वेदिवन्धं प्रकुर्वीत सार्धभागद्वयं बुधः ॥ है, 'द्वादशांशसविस्तारा' इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy