________________
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । चन्द्रिकैकेन भागेन कलशस्त्रिपदात् ततः । हषेण: क्रियते यत्र स देशः सुखमेधते ।। क्षेमं गोब्राह्मणानां स्यात पूर्णकामश्च पार्थिवः ।
हर्षणः ।
इदानी दुर्धरं धूमः प्रासादं शुभलक्षणम् ॥ चतुरश्रे समे क्षेत्रे चतुर्विंशतिभाजिते । कर्णाः (षडापदाः कायां प्रतिस्थं च ?) द्वयं भवेत् ॥ कर्तव्याष्टपदा शाला निर्गमोऽस्य चतुष्पदः । पदद्वयं विनिष्क्रान्ता सर्वतः कर्णशोभिता ॥ द्विपदा बाह्यभित्तिः स्याञ्चतुर्भागान्धकारिका । द्विपदा कन्दभित्तिस्तु गर्भश्चाष्टपदायतः ॥ षट्पदा कन्दशाला च कन्दङ्गणाः पदत्रयम् । ऊध्र्वप्रमाणं विस्ताराद द्विगुणं द्विपदाधिकम् ॥ (विंशत्यम?) तुलोच्छ्रायाः शिखरं त्रिंशता पदैः । कुम्भः साधेद्विभागश्च कलशो भागमुच्छि(ति?त): ॥ भागार्धनान्तरं पत्रं भायेनकेन मेखला । दशभागोच्छ्रिता जवा हीरकं भागिकं भवेत् ।। भागेश्चतुर्भिः कर्तव्यं मेखलाद्वितयं ततः । अधस्तादृर्वपट्टस्य तलपट्टम्य चोपरि ।। भवेत् षोडशभिर्भागैरनयोरन्तरं द्वयोः । द्विपदो वेदिकाबन्धो वेदी कार्या चतुष्पदा ।। भासनं चैव भागेन स्तम्भः पञ्चपदैर्भवेत् । भागेनैकेन भरणं शीर्षकं भागमुन्नतम् ॥ पट्टो भागद्वयोत्सेधश्छाद्यं च त्रिपदायतम् । मूलभरणानि(१) चत्वारि कोगभद्राणि (कं भवेत् ?) ।। कर्णशृङ्गाणि दश च द्वयम(थ)स्मिंश्चतुर्दिशम् । (ग्रीवां भगसन्तानां?) शृङ्गाणां त्रिपदोच्छ्रितिः ।।
"Aho Shrut Gyanam"