SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे षट्पदाः कर्णमञ्जयः सप्तभागसमुच्छ्रिताः । ग्रीवार्धभागिकी भागः स्यादुच्छ्रायोऽण्डकस्य (तत्) । पदत्रयोन्नता कार्या सिंहकर्णश्चतुष्पदा (?) । मध्ये भद्रे तदुत्सेधो विस्तारादर्धभागिकः ॥ विस्तारो मूलमजोः पदैः षोडशभिर्भवेत् । अष्टादशभिरुच्छायो ग्रीधा सार्धपदोच्छ्रिता ।। अण्डकं द्विपदं कार्य चन्द्रिका पदमुच्छ्रिता । कलशं त्रिपदं विद्यात् सर्वलक्षणसंयुतम् ।। अण्डकैः सप्तदशभिः प्रासादो दुर्धरो भवेत् । दुर्धरं या करोतीह (भागा?भर्गाच्छक्ति समा?आ)प्नुयात् ।। कालेन शिवसायुज्यं (निगधिश्च प्रद्यतेः)। दुर्धरः ।। इदानी दुर्जयं ब्रूमः प्रासादं शत्रुमर्दनम् ।। यं कृत्वा (दुर्जयं लोके?) भवेत् क्रीडति च क्षितौ । चतुरश्रीकृते क्षेत्रे पञ्चभागविभाजिते । गर्भ नवपदं कुर्याद भित्तिः पोडशभागिकी । भागेन कणेरथिका भागाभ्यां मध्यमे रथः ।। भागेन निर्ग(मं स्त)स्य वि(घि)रेष चतुर्दिशम् । भद्रकान्तरे कुर्याद वारिमार्ग पदाधिकम् ।। ऊर्ध्वमानं विधातव्यं (त्वमस्मिः) दशभागिकम् । वेदिबन्धः सपादांशी जङ्घांसौ पादसंयुतौ ॥ मेखलान्तरपत्रे तु पदार्थेन प्रकल्पयेत् । शिखरः (खिखिरैः?) साध भागषट्कोच्छ्रितो भवेत् ॥ त्रिपदः स्कन्धविस्तारो रेखा पद्मदलाकृतिः । भूमयः पञ्च कतेव्या न्यूनमाना यथाक्रमम् ॥ प्रथमा साधेभागान्या पदपादोनिता क्रमात् । स्कन्ध(:)पादोनभागेन स्याद् ग्रीवा(धौधे) पदेन च ॥ ., 'निधने च प्रपद्यते' इति स्यात् । २. 'दुर्जयो लोको' इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy