________________
समराङ्गणसूत्रधारे अथ हर्ष प्रवक्ष्यामि सर्वलोकप्रहर्षणम् । नित्यं वसति यत्र श्रीः स्थानं यद विश्वकर्मणः । चतुरश्रीकृते क्षेत्रे भक्तेऽष्टादशभिः पदैः । प्रतिकोणं विधातव्याः (कणेभागौ?) स्त्रिभिस्त्रिभिः ।। द्विपदं कर्णभद्रं च भागेनैकेन निर्गतम् । वारिमा(ग) पदं कुर्यात् प्रवे(श्यीशा)यामतः समम् ।। त्रिभागमस्य प्रत्यङ्गं पदद्वितयनिर्गमम् । वेदिचन्द्रावलोकाभ्यां प्रत्यङ्गे कर्म कल्पयेत् ॥ चतुष्पदं मध्यभागं द्विपदं चास्य भद्रकम् । विनिर्गतं च भागेन विदधीत विचक्षणः ॥ वलभ्यश्च द्विभागाः स्युः(वा?स्वा)नुरूपाश्चतुर्दिशम् । गर्भो भागेश्चतुर्भिस्तु वलभीनां विधीयते ।। द्विपदा बाह्यतो भित्तिद्विपदा च भ्रमन्तिका । स्कन्धः स्याद् दशभिभागगर्भः षट्त्रिंशता पदैः ।। ऊर्ध्वप्रमाणमेतस्य स्याच्चत्वारिंशता पदैः । भागैः षोडशभिश्वास्य विदध्याच्छादनं शुभम् ॥ वेदीबन्धः पञ्चपदो जङ्गा चाष्टपदा भवेत् । शा(लालां) चान्तरपत्रं च कुयोद् भागत्रयाद बुधः॥ ऊर्ध्वमन्तरपत्रं स्याद् विधातव्यं यथाक्रमम् । वलभीसंवृतिः प्राज्ञैरुच्छ्रायात् पञ्चभागिकी । (सास)शृङ्गैः सिंहकर्णैश्च कार्यो?र्या) भागसमुच्छ्रितिः । वर्धमानेन कर्तव्या त्रिपदा कर्णमञ्जरी ॥ ऊर्व पदेभ्यस्त्रिभ्यः स्याद् भागेन कलशाण्डकम् । विस्तारात् षोडशपदा कर्तव्या मूलमजरी ।। ऊ(?)विंशतिभागास्य स्कन्धो नवपदायतः । ग्रीवा सार्धपदं कार्या ततो द्विपदमण्डकम् ।। १. 'कर्णा भागै' इति स्यात् ।
"Aho Shrut Gyanam"