SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ १९३ अश्वशाला नाम त्रयस्त्रिंशोऽध्यायः । एवंविधानि चान्यानि संनिदध्यात् प्रयत्नतः । पुरःस्तम्भाश्रितं भाण्डं सन्नाहादेर्विधीयते ॥ ४१॥ प्राङ्मुखे तुरगं गेहे वारुण्यां स्थापयेद् दिशि । पूर्वामुखे पदे वापि मित्रस्य वरुणस्य च ॥ ४२ ॥ भवन्ति तेन बहवः पुष्टिं च प्राप्नुवन्ति ले । सा हि दिक पूजनीया च स्तोतव्या च प्रकीर्तिता ॥ ४३ ।। होमशान्तिकंदानेपु धा याश्च पराः क्रियाः । तासु प्रशस्यते पूर्वा शक्रेणाधिष्ठिता स्वयम् ।। ४४ ॥ तस्यादेति दिनकृदनुलोमं ततः पुनः । अश्वानां पृष्ठतो याति स प्रतीचीमनुक्रमात् ।। ४५ ।। स्नानाधिवासने पूजा माङ्गल्यानि पराणि च । प्राङ्मुखानां तुरगाणां कर्तव्यानि शुभार्थिभिः ॥ ४६॥ एवं कृते भूमिबलमित्राणां यशसोऽपि च । वृद्धिर्भवति भूपस्य तस्मात् प्राची प्रशस्यते ॥ ४७ ।। भतद्धिप्रदं स्थानमनासस्य तद् भवेत् । दक्षिणाभिमुखायां तु शालायां वाञ्छितार्थदम् ।। ४८ ॥ स्थानं भवति वाहानां पदे क्लुप्तं विभावसोः। वहिनाध्यासिता सा दिर्ग आत्मा वह्निश्च वाजिनाम् ।। ४९ ॥ अजरो बहुभोक्ता च तत्र बद्धो भवेद्धयः । उदङ्मुखेऽपि भवने प्राप्नुवन्ति शुभं हयाः ॥ ५० ॥ तथास्थितानामश्वानां दक्षिणेन दिवाकरः। उदेत्यनन्तरं याति तान् विधाय प्रदाक्षणम् ॥ ५१ ॥ प्रयाति वामतोऽ(श्वं च?श्वानां) स्थाप्यास्तेनोत्तरामुखाः। चन्द्रार्को प्रति(हपीहेष)न्ते तथा बधीत वाजिनः ।। ५२ ॥ नृपतिश्च जयं सिद्धिं पुत्रानायुश्च विन्दति ।। अंरोगाश्च भवन्त्यश्वा वधेयन्ति च सन्ततिम् ॥ ५३॥ १. 'ताः' क. ख. पाहः । २. 'षु'; ३. 'यगोकस्य' क. पाठः । ४. 'गदीप्तो वहिस्तु वा', ५. 'आरोग्याश्च' क. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy