SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ यन्त्रविधानं नामैकत्रिंशोऽध्यायः । शेषांशोच्छ्रययुक्ता घण्टा चतुरश्रकायता कार्या । त्रिचतुर्भूम्यौ कार्ये सषट्चतुर्भागविस्तारे || २०४ | रजः स्यादाद्यभुविद्वितीयभुवि कोणगास्तथा रथिकाः । स्युर्भद्राकृतियुक्ता दोला अपि तत्र रमणीयाः ॥ २०५ ॥ afraredient कार्या भद्रेषु चातिरमणीयाः । कोणेष्वथासनान्यर्धवास्तुकेपि भ्रमः कार्यः ॥ २०६ ॥ दोलारथिके चतुरासने भ्रमोऽष्टासनो भवेत् तत्र । आसनमिह तत् कथितं युवतेः स्थानं यदेकं स्यात् ॥ २०७ ॥ निखिलान्यपि भ्रमणसंमुखं तानि विनति भ्रमणम् (?) । यत्रासनानि स इह भ्रम इत्युक्तोऽपराधिका ( 2 ) ।। २०८ ॥ यष्टेरूर्ध्वमधस्ताद् भ्रमस्य चक्रं (नि) योजयेदेकम् । लघुचक्राणि च तद्वन्नियोजयेदासनेष्वत्र ॥ २०९ ॥ लघुचक्रारकत्ते संलग्नाः कीलका दृढाः कार्याः । तुल्यान्तराः समस्ताः प्रलघु (क) चक्रारवृन्तर्गताः ॥ २१० ॥ रथिकाशिखाग्रचक्रं भ्रमचकारक (वि.) नियोजितं कार्यम् । यष्टिचतुष्टयमस्मिस्तिर्यक् चक्रद्वयोपेतम् || २११ ॥ ऊर्ध्वं द्वितीयभूमेस्तृतीयभूमेरथान्तरे कुर्यात् । नियतं रथिकायष्टिभ्रम संलग्नानि यन्त्राणि ॥ २१२ ॥ आसनाधारयष्टीनां रथिकाचक्रयोजितान् । अधः समान्तरान् कुर्याच्चतुरः परिवर्तकान् ॥ २१३ ॥ त (द्व) द् द्वितीयभूमीदो लागर्भे समान्तरे यष्टी । लग्ने तथैकचक्रे याम्योत्तरचक्रयोर्न्यस्येत् || २१४ ॥ धो भूको गरथिका चूडाग्रचक्रसंसक्ताः । यष्टीस्ततश्वतम्रो द्विचक्रका इतरचक्रयोर्न्यस्येत् ॥ २१५ ॥ प्रान्तचक्रद्वये कोणरथिकाचऋयोजिता । दोलागर्भगता यष्टिस्तिर्यक् कार्यापरापरा || २१६ ॥ १. 'यु' ग, पाठ: । २ ' चक्रभ्रमरच ' ख. पाटः । ३. 'क्रम' ग. पाठः । ४. ' म' ख. ग. पाठः । ५. 'ला' ग. पाठः । "Aho Shrut Gyanam" १८७
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy