________________
१२२
समराङ्गणसूत्रधारे गुरोरधो लघु न्यस्येत् पूर्व शेपं यथोपरि । गुरुभिः पूरयेत् पश्चाद् यावत् स्युर्लघवोऽखिलाः ॥ ३ ॥ विद्यादलिन्दान् सर्वेषु लघुस्थानेषु पण्डितः । सव्यावर्ते गृहमुखादेतांश्च विनियोजयेत् ।। ४ ।। एषामलिन्दसंयोगाद् भवनानां पृथक् पृथक ।। नामानि गुणदोषाश्च वक्ष्यन्तेऽनुक्रमादतः ।। ५ ।। ध्रुवं धन्यं जयं नन्दं खरं कान्तं मनोरमम् । सुमुखं दुर्मुखं क्रूर सुपक्षं धनदं क्षयम् ।। ६ ।। आक्रन्दं विपुलं चैव विजयं गृहमुत्तमम् । घुवे जयमवामोति धन्ये धान्यागमो भवेत् ॥ ७ ॥ जये सपत्नाञ् जयति नन्दे सर्वाः समृद्धयः । खरमायासदं वेश्म कान्ते च लभते श्रियम् ॥ ८ ॥ आयुरारोग्यमैश्वर्य तथा वित्तस्य सम्पदः । मनोरमे मनस्तुष्टिहभर्तुः प्रकीर्तिता ॥ ९ ॥ सुमुखे राज्यसन्मानं दुर्मुखे कलहः सदा ।। क्रूरव्याधिभयं क्रूरे सुपक्षं गात्रद्धिकृत् ॥ १० ।। धनदे हेमरत्नादि गाश्चैव लभते पुमान् । क्षयं सर्वक्षयं गेहमाक्रन्दं ज्ञातिमृत्युदम् ॥ ११ ।। आरोग्यं विपुले ख्यातिर्विजये सर्वसम्पदः । यदि धन्ये द्वितीयोऽपि मुखालिन्दः प्रयुज्यते ॥ १२ ॥ तद् गृहं रम्यनामेह भर्तुः सौभाग्यकारकम् । मुखालिन्देन नन्दाख्यं द्वितीयेन सुयोजितम् ॥ १३ ॥ तच्छ्रीधरमिति ख्यातं तस्मिन् श्रीनित्यमाविशेत् । अलिन्दश्चेद् द्वितीयोऽपि कान्तस्यास्ये निवेश्यते ॥ १४ ॥ मुदितं तद् भवेद् भर्तुभूतिकृद् भवनोत्तमम् । सुमुखस्य यदालिन्दो वक्त्रेऽन्यो विनिवेश्यते ॥ १५ ॥ १. 'व, २. 'ध्रुवम् ' ख. पाठः ।
"Aho Shrut Gyanam"