________________
द्विशालगृहलक्षणं नाम द्वाविंशोऽध्यायः । हिरण्यनाभादिनिकेतनानां चतुष्टयस्यैवममी प्रकाराः। द्विसप्ततिः कृत्स्नतयोपदिष्टाः प्रत्येकमष्टादशभेदक्लृप्ताः ॥ ५८॥ इति महाराजाधिराजश्रीभोजदेवावरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
द्वासप्ततित्रिशाललक्षणं नामकविंशोध्यायः ।।
अथ द्विशालगृहलक्षणं नाम द्वाविंशोऽध्यायः ।
द्विशालानि द्विपञ्चाशत् स्युः शुभान्यशुभानि च । लक्षणानि क्रमात् तेपामिदानी सम्प्रचक्ष्महे ॥१॥ सिद्धार्थ यममूर्य च दण्डाख्यं वातसंज्ञितम् । चुल्ली काचं च मुख्यानि द्विशालानि षडेव हि ॥ २॥ अनेकभेदभिन्नानि लघुप्रस्तारयोगतः । मूषाभेदक्रमेण स्युर्भेदाभेदक्रमेण तु ॥ ३ ॥ तथा निलीनकरणाद् वीथिकालिन्दमार्गतः । प्राग्नीवादिविधानेन द्वैशाल्यादिविपर्ययात् ॥ ४ ॥ यथासम्भवमेतानि कथयामः समासतः । निर्वाहतश्च मूषाणामनिर्वाहाच्च नामतः ॥ ५ ॥ छन्दतो गुणतो रूपादशुभानि शुभानि च।। हितार्थाय नरेन्द्राणां वर्णिनां लिगिनामपि ॥ ६ ॥ हस्तिनी महिषी चेति द्वे शाले यत्र वेश्मनि । तत् सिद्धार्थमिति ज्ञेयं वित्तसम्पत्तिकारकम् ॥ ७॥ मृत्युदं महिषीगावीभ्यां भवेद् यमसूर्यकम् । दण्डं स्याच्छगलीगावीशालाभ्यां दण्डभीतिदम् ॥ ८ ॥ वातं करेणुच्छगलीयुक्तमुद्वेगकारकम् । महिष्यजाभ्यामुद्वेगकरी चुल्ली धनापहा ॥९॥
"Aho Shrut Gyanam"