SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । तैश्च वादित्रनिनदैस्तैश्च पुण्याहनिस्वनैः । दृढरज्जुभिराकृष्टं श्रवणे ध्वजमुच्छ्रयेत् ॥ १४२ ।। यत्नेनोत्थाप्यमानस्य तस्योच्छ्रायगतस्य च । नृपक्षिवाहनादीनां निमित्तान्यवलोकयेत् ॥ १४३ ॥ कुटनीनिहिताभोगं पताकादर्पणोज्ज्वलम् । चित्रपट्टस्फुटाटोपमर्केन्दुगुणभूपणम् ॥ १४४ ॥ अस्रस्तमाल्यालङ्कारमशीणच्छत्रमस्तकम् ।। अकम्पितमदीर्णाङ्गमदिग्भ्रष्टं सुरेश्वरम् ।। १४५ ॥ सममूर्ध्वसमश्लिष्टमनवक्षतमद्रुतम् । अविलम्बितविभ्रान्तमजुमार्गसमुद्गतम् ।। १४६ ॥ इत्थं शक्रध्वजोत्थानं कृतं राज्ञो जयावहम् । पौरजानपदानां च क्षेमारोग्यसुभिक्षकृत् ॥ १४७ ।। यदा शक्रध्वजः प्राचीमुच्छ्रितः प्रतिपद्यते । तदा मन्त्रिगणक्षत्रनृपप्राग्वासिद्धिदः ॥ १४८ ॥ भाग्नेयीं ककुभं याते वर्धन्ते वह्निजीविनः । प्रारब्धकार्यनिष्पत्तिरयत्नाचोपजायते ॥ १४९ ।। दक्षिणां दिशमायाते केतने नमुचिद्विपः । तदा स्युर्वेश्यलोकस्य पूजाधान्यधनद्धेयः ॥ १५० ॥ सर्वाशासंपदः श्रेष्ठा जायन्ते नैऋताश्रिते । न स्याद् गर्भो वृथा तद्वद् वधबन्धमयं न च ॥ १५१ ।। श्रिते प्राचेतसीमाशामस्मिञ् शूदजयो भवेत् । क्षुत्तृष्णाग्निभयं न स्याद् वृष्टिरिष्टा च जायते ।। १५२ ॥ द्रुमसस्यफलर्द्धिः स्यात् केतौ वायोः श्रिते दिशम् । चतुष्पदविवृद्धिश्च रोगोच्छित्तिश्च जायते ॥ १५३ ॥ चतुर्णामपि वर्णानां सम्पत स्यात सौम्यदिग्गते । विशेषात् सा द्विजेन्द्राणां तथा सिध्यन्ति चाध्वराः ।। १५४ ॥ १. 'नुमक्लिष्टमनवक्षतमद्भुतम् ' स्व. पाठः । २. 'न्तं नृपमा' क. पाठः। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy