________________
११
""
धान्यसञ्चयाः, निही इव लक्षादिप्रमाणद्रव्यस्थापनानि 'महानिहाणाई भवंति ' भूमिगत सहस्र | दिसंख्या द्रव्यसञ्चयाः 1 से जाईं इमाई पुनपोराणाई ' पुराप्रतिष्ठितत्वेन पुराणानि पुरापुराणानि । अत एव 'पहीण' स्वल्पीभूतस्वामिकानि । 'पहीणसेउयाई' प्रहीणाः - अल्पीभूताः सेक्तारः- सेचकाः धनप्रक्षेप्तारो येषां तानि तथा प्रहीणमार्गाणि वा । 'पहीणगोत्ता' प्रहीणं - विरलीभूतं मानुषं गोत्रागारं तः स्वामिगोत्रगृहं येषां तानि तथा । 'उच्छन्नसामियाई' निःसत्ताकीभूतानि । उच्छन्नशब्दः प्रहीणशब्दस्थाने वाच्यः सर्वपदेविति, शेषं पूर्ववत् । 'सिंघाडएसु वा' सिद्धाटकं फलविशेषः, स्थापना, त्रिकं तिसृणां मार्गाणां मीलन, चतुष्कं चतुणी पथां मीलनम +, चत्वरं - बहूनां पथ मिलनम्, चतुर्मुखं चतुर्मुखदेवकुलि कात्रत]], महापथःराजमार्गः, 'गामद्वाणे वा' तत्र करादिगम्या ग्रामाः, आकराः -लोहाद्युत्पत्तिभूमयः, नैतेषु करोऽस्तीति नकराणि, खेटानि - धूलीप्राकारोरेतानि, कर्बटानि कुनगराणि, मडम्बानि - सर्वतोऽर्द्धयोजनात परतोऽवस्थितग्रामाणि द्रोणमुखानि येषां जलस्थलपथावुभावपि स्तः, पत्तनानि येषु जलस्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आश्रमाः - तीर्थस्थानानि मुनिस्थानानि या, "मुनीनां स्थानमाश्रमः ( ) इति वचनात्, संवाह: - समभूमौ कृषि कृत्वा येषु दुर्गभूमि [ भूते ]षु धान्यानि कृषीवलाः संवहन्ति रक्षार्थम्, सन्निवेशा: सार्थकटकादेः, घोषाः - गोकुलानि । ग्रामस्थानेषु - उद्वसितेष्विति, एवं नगरस्थानेषु वा । 'ग्रामनिर्द्धमनेषु' ग्रामजलनिर्गमेषु, एवं नगर निर्द्धमनेषु । आपणानि - हट्टानि व्यवहारस्थानानि तेषु । 'देवकुलेषु वा' यक्ष शिवायतनादिषु । 'सभासु ' राजसभादिषु । आरामाः - विविधतोपेताः, ये कदल्यादिप्रच्छन्नगृहेषु बीसहितानां पुंपां क्रीडास्थानभूतास्तेषु । उद्यानानि पत्र-पुष्प फल- च्छायोपगवृक्षोपशोभितानि, बहुजनस्य विविधत्रेघरयोन्नतमानस्य भोजनार्थ यानं गमनं येष्विति । वनेषु वनपण्डेषु वा, वनानीति - एकजातीयवृक्षाणि, वनपण्डाः - अनेकजातीयोत्तमवृक्षाः । सुसाणेषु श्मशानगृहेषु पितृवनेषु, सुन्नागारेसु-शून्यगृहेषु, गिरिकन्द-रागृहेषु, शान्तिगृहेषु - शान्तिकर्मस्थानेषु, शैलगृहेषु पर्वतमुत्कीर्यकृतेषु गृहेषु, उपस्थानगृहेषु-आस्थानमण्डयेषु भवनगृहेषु कुटुम्बिक्स नगृहेष्विति । वाशब्दः सर्वपदेषु दृश्यः । 'संन्निखित्ताई' सम्यग् निक्षिप्तानि 'सन्निहियाई' सम्यग् निधानीकृतानि - गुप्तानिअनेकोपायैः पिधानादिभिः तिष्ठन्ति तानि सिद्धार्थराजभवने 'साहरंति' प्रवेशयन्ति निक्षेपयन्ति तिर्यग्लोकवासिनो का देवाः शक्रवचनेनेति ॥ सूत्रम् ८६'भत्ता भवन्ने तप भई च णं अम्हे हिरन्ने 'मित्यादि, हिरण्यं रूप्यम्, अघटित सुवर्णमित्येके, सुवर्णेन - घटिता घटितेन, विउलघणेण इह धनं गणिमादि ४, धान्यानि - चतुर्विंशतिः यवगोधूमादीनि, राज्यं - राष्ट्रादिसमुदयात्मकम् राष्ट्रं च- जनपदम् कोश-माण्डागारम्, कोष्ठागारं च धान्यगृहम्, बलं च इत्यादिसैन्यम्, वाहनं च-वेगसरादिकम्, कणयं सुवर्णम् रत्नानि -कर्केतनादीनि मणयः - चन्द्रका - ताथाः, मौक्तिकानि - शुक्तिमाकाशादिप्रभवानि शङ्खाः- प्रतीताः शिलाप्रवालानि विद्रुमाणि, अन्ये स्वाहुः शिलाः- राजपट्टादिरूपाः, प्रवाल- विद्रुमम्, रक्तरत्नानि पद्मरागादीनि इत्येवमादिकेन । 'संत'त्ति विद्यमानं सारं - प्रधानं स्वापतेयं द्रव्यम् । प्रीत्या सत्कारेण - वस्त्रादिना ||
,
सूत्रम् ९२ - 'तं गम्भ
१ ० ताः सरकाः लेचकाः सं० ॥। २ पर्याहारप्रवेशः निर्गमप्रवेश इस्वर्थः ।
-
"Aho Shrut Gyanam"