________________
पुटकावनद्धमुखो वाद्यविशेषः, पणवः- भाण्डपटही लघुपट हो वा तदन्यस्तु पटह इति, भभगत ढका 'होरंभ'ति रूढिगग्या, 'मेरी' रहाटका, 'झल्लरिति वलयाकारो वाद्यविशेषः, 'दुन्दुभि'ति देववायविशेषः, अथोक्तानुक्तसंग्रहद्वारेणाह -- ततानि - वीणादिकारी, तजनित शब्दा अपि तताः एवमन्यदपि पदत्रयम्, नवरमयं विशेषस्ततादीनाम् - "ततं वीणादिकं ज्ञेयं १, विततं पटहादिकम् २ | न तु कांस्यतालादि ३, वंध्यादि शुषिरं मतम् ४ ॥ १ ॥ तथा तन्त्री--वीणा, तलताचराः -- हस्तताशः, तला वा - इस्ताः तालाः- कांसिकाः, 'तुडिय'ति शेषतूर्याणि तथाकारो ध्वनिसाधर्म्याद यो मृदङ्गः-:-मर्दः पटुनादः - दक्षपुरुषेण प्रवाद्यत इति, एतेषां द्वन्द्वः, अत एष वः स तथा तेन । 'भोगभोगाई ति भोगान् भोगान्-शब्दादीन् भुञ्जानो विहरति स्म ॥ सूत्रम् १५ ---- 'केवलक पंति केवल:- परिपूर्णः कल्पत इति कल्पः-स्वकार्यकरणसमर्थः, अथवा केवलकल्पः-केवलज्ञानसदृशः परिपूर्णतासाधर्म्यात् । 'कत्ति कटकानि - बाहुबलकार, त्रुटिका :बाहुरक्षकाः, केयूराणि - अङ्गदाः बाहुमूलविभूषणानि, मुकुट :- शितेविभूषणम्, कुण्डखानि-करणानि, हारा:- मुक्तामया अष्टादशस रिकादयः ॥ सूत्रम् १७ - 'उगकुले वत्ति उम्राः - आदिकरस्थापिता आरक्षकवंशजाताः, भोगाः - तेनैव स्थापितगुरुवंशजाताः, राजन्याः -- भगवद्वयस्यबंशजाः, क्षत्रिया:-राजकुलीनाः, इक्ष्वाकाः - इक्ष्वाकुवंशजाः, हरिवंशस्तु हरिवर्षादानीत पुगलप्रभवः । 'अन्यतरेषु वा तथाप्रकारेषु विशुद्धजातिकुलवंशेषु' इति भणनाद भटाः- शौर्यन्तः, योगाः तेभ्यो विशिष्टतराः, मल्लकिनो लेच्छकिनश्व - राज विशेषाः, राजानः- नृपाः, ईश्वराः - युवराजादयः, तदन्ये च महर्दिकाः, तलवराः --प्रतुष्टनर पतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः, माण्डविकाः सन्निवेशनायकाः, कोडुम्चिकाः कतिपय कुटुम्बप्रभवो राजसेवकाः ॥ सूत्रम् २६ - - हरिणेगमेषीति ज्ञेयम्, 'वेउब्वियसमुग्धारणति वैक्रियकरणाय प्रयत्नविशेषेण 'समोहनइ' समुपहन्यते - समुपहतो भवति समुपहन्ति वा प्रदेशान् विक्षिपतीति । संरस्वरूपमेवाह – 'संखे'जाई'ति दण्ड इव दण्ड:- ऊर्ध्वाधआयतः शरीरबाहल्यो जीवप्रदेश कर्म पुद्गलंसमूहः । तत्र च विविधपुद्गलानादत्ते इति दर्शयन्नाह – तद्यथा, 'रेत्नानां' कर्केनादीनाम् । इह च यद्यपि रत्नादिपुद्गला औदारिकाः वैकियसमुद्घाते च वैक्रिया एव ग्राह्या भवन्ति तथापीह तेर्षा रत्नादिपुद्गलानामिव सारताप्रतिपादनाय रत्नानामित्युक्तम्, तच रत्नानामिवेत्यादि व्याख्येयम् । अन्ये स्वाहुः --- औदारिका अपि ते गृहीताः सन्तो वैक्रियतया परिणमन्तीति । यावत्करणादिदं दृश्यम् - - ' वहराण' मित्यादि । किम् ? अत आह— 'अहाबायरे' यथावादरान्- असारान् पुद्गलान् परिशातयति दण्डनिसर्गगृहीतान् । यच्चोक्तं मज्ञापना टीकायाम् - "यथास्थूलान् 'चैकियपुद्गलान्' वैकियशरीर नामकर्मपुद्गलान् प्राम्बद्धान् शातयति" (समु०पद ३६ पत्र ५६०) इति तत् समुद्घातशब्दसमर्थनार्थमनाभोगिक वैक्रियशरीरकर्मनिर्जरणमाश्रित्येति । 'अहासुहुमे 'ति यथासूक्ष्मान 'परियाइत्ति पर्यादत्ते, दण्डनिसर्गगृहीतान् सामस्त्येनादत्त इत्यर्थः ॥ सूत्रम् २७ -- 'दोच्चं पि' द्वितीयमपि वारं समुद्घातं करोति चिकीर्षितरूपनिर्माणार्थम् 'कुच्छिसि साइरह' गभसाहरणसूत्रं भगवती सम्बन्धि यथा-हरी णं भंते । नेगमेसी सक्कदूर इत्थीगमं साहरमाणे २ "रयाणणं जाब अहाबापरे" इति सूत्रपाठः दिष्पनककृतां सम्मतः ॥
"Aho Shrut Gyanam"
०