________________
परि. * सू.५६] स्याद्वादरत्नाकरसहितः रीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ' इति । अत्रोच्यते----यत्तावदुक्तम् 'न वाऽनात्मविशेषगुणानां' इत्यादि । तत्र पक्षक .... .... .... .... ..... मपरिग्लानतत्संवेदनसामर्थ्य चतुर्थ पुरुषार्थमाचक्षतेविचक्षणाः। यदि तु जडपाषाणनिर्विशेष एव । तस्यामवस्थायामात्मा भवेत् । ५ तत्कृतमपवर्गेण संसार एव वरमस्तु । यत्र तावदन्तरान्तरापि दुःखकलुषितमपि स्वल्पमपि सुखमुपभुज्यते । चिन्त्यतां तावदिदम् । किमल्पलुखानुभवो भव्य उत सर्वमुखोच्छेद एव । किं च - .
समम्ति वार्तापि न यत्र शर्मणश्चकास्ति बुद्धेर्न कणोऽपि कश्चन । स्यात्सोऽपि मोक्षोऽपि यदि भोस्तदा न
किं स्युवमुख्या अपि मोक्षलक्षिताः ॥ ८१० ॥ अथास्त्येव तथाभूते मोक्षलोभातिरेकः प्रेक्षाणां तद्देवंविधे चयन्ति दुःखसंम्पर्शशून्यशाश्वतिकसुखसंभोगासंभवाद्दुःखस्य चाव- . श्यहातव्यत्वाद्विवेकहानस्य चाशक्यत्वाद्विषमधुनी । इवैकत्रामत्रे १५ पतिते उभे अपि सुखदुःखे त्यजे यतोऽयमित्यतश्च संसारान्मोक्षः श्रेयान् , यत्रायभियानतिदुःसहो दुःखप्रबन्धोऽवलुप्यते वरमियती काहाचित्कसुखकणिका त्यक्ता । नतु तस्याः कृते दुःखभार इयानुत्साह इति । तत्र दुःखसंस्पर्शशून्यशाश्वतिकसुखसंभोगासंभवादित्यत्र शाश्वतिकमनादिनिबन्धनं यद्वादिमदपि प्रध्वंतवदपर्यवसानं २० सुवं विवक्षितम् । तत्रादिपर्यवसानशून्यं सुखं तावत्प्रेक्षाणामुपादित्सागोचर एव न भवति सदैव प्राप्तत्वादिति कुतस्तदभावस्तत्राप्रवृत्तौ प्रेक्षाकारिणोऽकारणमभिधीयेत । द्वितीयं तु सुखं भवत्येव तत्प्रवृत्तिनिमित्तम् । न च तस्यासंभवः । बाधकप्रमाणाभावात् । साधकं तु सुखसंवेदनयोस्तलानुमानमपरिग्लानसामर्थ्यमभिहितमेव । अनन्तता २५ च तत्र तयाविनाशकारणाभावादस्खलिता । तद्विनाशकारणं हि कर्म ।