________________
९१५
परि. ६ सू. ५] स्वाद्वादरत्नाकरसहितः पायात्मदुःखनिवर्तने प्रवर्तते । ततो न व्यभिचारः । एतेनादृष्टिविशेषवादात्मनि दुःखनिवर्लनपभिचार चोदना निरस्ता 1 ततः करुणोत्पत्तरेव तन्निवर्तनात् । तन्नाकरुणस्यात्मदुःखनिवर्ततं दृष्टमतो यमसमाधिरिति चेत् । न । स्वभावतोऽपि स्वदुःखनिवर्तननिबन्धनत्वोपपत्तेः । यथा खलु तत्स्वाभाव्यादेव भास्करो लोकं प्रकाशयति न ५: पुनः कृपालुतया । तथा यदि केवली स्वदुःखं निवर्तयिष्यति तदा को दोषः । तथा वा मे (!) दुःखनिवर्तकत्वस्य हेतोः करुणावत्त्वेनान्यथानुपपत्तेः सन्दिग्धत्वाट्यभिचारित्वम् । ततो निःशेषान्तरायक्षयादभयदानस्वरूपमेवात्मनः प्रक्षीणायरणस्य परमा दया । सैव च मोहाभावाद्रागद्वेषयोरप्रणिधानादुपेक्षा । तीर्थकरत्वनामो- १. दयात्तु हितोपदेशप्रवर्तनात्परदुःखनिराकारणसिद्धिरिति । न तु . बुद्धक्करुणयाऽस्य प्रवृत्तिर्मगवतो. येनापेक्षा केवलस्य फलं व स्यात् । ननूपेक्षावत्केवलज्ञाने सुखस्यापि फलत्वं वक्तुमुचितमन्यथा *केवलस्य सुक्षोपेक्षा' इति पूर्वाचार्यवचनविरोधो दुष्परिहर इति चेत् । सत्यम् । किन्तु न सहृदयक्षोदक्षमोऽयं केवलज्ञानस्य सुखफलत्व- १५ पक्षः, इत्युपेक्षितोऽस्माभिः । सुखस्य हि संसारिणि सद्वेद्यकर्मोदयफलत्वम् । मुक्ते तु समस्तकर्मक्षयफलत्वं प्रमाणोपपन्नम् । न पुनर्ज्ञानफलत्वम् । ततः सूक्तं पारम्पर्येण केवलज्ञानस्य तावत्फलमौदासीन्यमिति ॥ ४ ॥
अथ केवलव्यतिरिक्तप्रमाणानां परम्पराफलप्रकटनायाह- २० शेषप्रमाणानां पुनरुपादानहानोपेक्षा बुद्धय
इति ॥५॥ ___ पारम्पर्येण फलमिति प्राक्सूत्राइत्र सम्बध्यते । ततः शेषप्रमाणानां केवलज्ञानव्यतिरिक्तानां पुनरुपादानं परिग्रहो हानं परित्यारा उपेक्षा औदासीन्यं तदर्थमुपादेयादिषु बुद्धयः पारम्पर्येण फलमित्यर्थः ॥ ५ ॥ २५