________________
९९३
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ६ सू. ३
रूपेण परिणतौ केवस्य केवलिनः प्रतिसमयाज्ञाननिवृत्तिपरिणामो नास्तीति चेत् । न । द्वितीयादिसमये तद्नभ्युपगमे तस्याज्ञत्वप्रसङ्गात् । न वरं केवलज्ञानोत्पत्चिप्रथमसमयेऽज्ञानस्य निवृत्तिः प्रथमसमयविशेषेण समस्ति । द्वितीयादिसमये पुनः सैव द्वितीयादि समयविशिष्टेति न फलभावलक्षणो दोषः ॥ ३ ॥
इत्थमानन्तर्येण प्रमाणफलं निरूप्य पारम्पर्येण सत्प्रकाशयन्नाह - पारम्पर्येण केवलज्ञानस्य तावत्फलमोदासीन्यमिति ॥ ४ ॥
1
1
औदासीन्यं साक्षात्समस्तार्थानुभवेऽपि हानोपादानेच्छाविरहान्मा१० ध्यस्थमुपेक्षेतेत्यर्थः । कुत इति चेत् । उच्यते । सिद्धप्रयोजनत्वाकेवलिनां सर्वत्रैौदासीन्यमेव भवति । हेयस्य संसारतत्कारणस्य हानात् उपादेयस्य मोक्षतत्कारणस्योपादानात्, सिद्धप्रयोजनत्वं नासिद्धं भवताम् । ननु करुणावतां परदुःखजिहासूनां कथमौदासीन्यम् । करुणाया असम्भवे वा कथमाप्तत्वं तेषां स्यादिति चेत् । न । २५ मोहविशेषात्मिकायाः करुणायास्तेषामसम्भवात् । स्वदुःखनिवर्तनवदकरुणयापि परदुःखनिराचिकीर्षायां प्रवृत्तेः । नन्वस्मदाद्रिवद्दयालोरेवात्मदुःखनिवर्तनं केवलिनः समीचीनम् । तथा चात्र प्रयोगः-यो यः स्वात्माने दुःखं निवर्तयति स स्वात्मनि करुणावान् । यथाऽस्मदादिः, तथा च योगी स्वात्मनि संसारदुःखं निवर्तयतीति । न २० चात्र हेतुर्विरुद्धोऽनैकान्तिको वा । विपक्षे सर्वथाप्यमावात् । भयलोभादिनात्मदुःखनिवर्तकैर्व्यभिचारी हेतुरिति चेत् । न । तेषामपि करुणोत्पत्तेः । न ह्यात्मन्यकरुणावतः परतो भयं लोभोऽभिमानो वा सम्भवति । तेषामात्मकरुणाप्रयुक्तत्वादिति परम्परया करुणावानेमात्मदुःखमनशनादिनिमित्तं निवर्तयति भयादिहेतुका वा कस्यचिदात्मनि २५ करुणोत्यते । सोत्पन्ना सती स्वदुःखं निवर्तयतीति साक्षात्करु