________________
प्रमाणनयतत्वालोकालङ्कारः
[ परि. ५ सु. ८
को हि नाम प्रामाणिक एकस्मिन् क्षणे स्थितिमतः प्रतिभासमानान् भावांस्तत्रातिष्ठतोऽभिदधीत् । अथैकस्मिन्नेव लक्षणे स्थास्तुता साध्यते ततो न सिद्धसाध्यतेति चेत् । तदसत् । तथाहि तदखिलमिति तच्छब्देन साधनार्थपरामर्शात् । साधने च पूर्वापरत्रुटितैकक्षणप्रति ५ भासस्याद्याप्यविवक्षितत्वात् । किं चैकक्षणावस्थायित्वनिर्भासनं सर्वेषु प्रत्यक्षेषु नास्माकं प्रसिद्धम् । दीदीर्घतराद्युपयोगरूपेषु तेषु व्यादिक्षणावस्थायित्वस्यापि पदार्थानां प्रतीयमानत्वात् । तदुक्तं भट्टजयन्तेनापि पल्लवे
Go
१०
किंचाविच्छिन्नष्टीनां प्रलयोदयवर्जितः । भावोऽस्खलितसत्ताकचकास्तीत्यात्मसाक्षिकम् ||
:
अत्राह — किं तावत्स्वरूपनिष्पतावुपयोगादनेकक्षणस्य व्यापकमध्यक्षम्, अथ क्षणनिष्पन्नस्यैव स्थैर्यात् । तत्रायः कल्पस्तावदसंभवी । ज्ञानस्यावयविरूपतावियोगेन खण्डश उत्पतेरयोगात् । अथ क्षणभेदिनश्च तेऽवयवाः प्रत्यक्षस्य परिच्छित्तिस्वभावास्तदा तावन्त्येव १५ प्रत्यक्षाणीति सिद्धं तेष्वेकक्षणस्थायिता निर्मासनं भावानाम् । अपरिच्छि तिस्वभावत्वे तु तेषां समुदितमपि प्रत्यक्षं न किमपि निर्भासयेत् । अथ प्रत्यक्षावयवैः खण्डशः समुदायेन तु पूर्णस्य वस्तुनः परिच्छेदः । तदाप्याद्यक्षणपरिच्छिन्नः खण्ड एव संपूर्ण वस्तु । तदप्रविष्टस्य ततो भिन्नत्वात् । अन्यथा क्रमेण प्रतीयमानं विश्वमेकमेव वस्तु स्यात् । २० सकलं च प्रत्यक्षमेकमेव प्रत्यक्षमिति द्वितीयपक्षेऽपि निष्पन्नग्रहणव्यापारस्य वा क्षणान्तरव्याप्तिरनिष्पन्नग्रहणव्यापारस्य वा । प्रथमपक्षे सिद्ध एकक्षणप्रतिभासः । द्वितीतपक्षेऽप्यनिप्पन्नग्रहण व्यापारस्यास्य स्थितिरिति दुःश्रद्धेयम् । नहि जन्मानन्तरमस्य ग्रहणव्यापारः । तत्स्वभावस्यैवोत्पतेः । अत्रोच्यते । स्वरूपनिष्पत्तावुपयोगादित्याद्य२५ पक्ष एव कीक्रियतेऽस्माभिः । तादृशं हि तथोपयोगस्य व्यादिक्षणस्थापि यत्स्वरूपं तत् तावतैव कालेन निप्पयते । प्रतिक्षणोपजाय
"Aho Shrut Gyanam"