________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ५ सू. ८
च पराभावात्मक प्रतिभासनमेव । अत एव स्वकीयरूपानुभवान्नान्यतोऽन्यनिराक्रियेत्येतदपि सदसदात्मक वस्तुप्रतिभासनमन्तरेणानुपपन्नमेव । यदा हि पररूपव्यावृत्तिमत्तत्स्वरूपमध्यक्षे प्रतिभाति तदा स्वस्वरूपमेव परतस्तस्य भेदस्तदग्रहणमेव चाध्यक्षतस्तद्वेदग्रहणम् । अन्यथा पारमार्थिकपरसत्त्वासत्त्वात्मकस्वसत्त्वाभावे स्वसत्त्ववत्परसच्चात्मकत्वप्रसंगान्न तत्स्वरूपमेव भेदो नापि तत्प्रतिभासनमेव "भेदप्रतिभासनं स्यात् । अत एवान्याभावस्य पदार्थात्मकत्वेऽपरापराभावकल्पनया नानवस्था । नापि परग्रहणमन्तरेण तद्वेदग्रहणाभावादितरेतराश्रयत्वाद्भेदाग्रहणम् । न चाभावस्य तुच्छतया सहकारिभिरनु१० पकार्यस्य ज्ञानाजनकत्वम् । नापि भावाभावयोरनुपकार्योपकारकत्वेनासंबन्धो भावाभावात्मकस्य पदार्थस्य स्वसामग्रीत उत्पन्नस्य प्रत्यक्षे तथैव प्रतिभासनात् । न चासदाकारावभासस्य मिथ्यात्वम् । सदाकारावभासेऽपि तत्प्रसंगात् । न चासदवभासस्याभावः । अन्यविविक्तावभासस्यानुभवसिद्धत्वात् । तन्न यदेव स्वसत्त्वं तदेव परासत्त्वमिति १५ साधु । अपेक्षणीय निमित्तभेदाच्च सत्त्वासत्त्वयोनैकत्वं वक्तुं युक्तम् । स्वद्रव्यादिकं हि निमित्तमपेक्ष्यार्थे सत्त्वं व्यवस्थाप्यते । परद्रव्यादिकं पुनरपेक्ष्य सत्त्वम् । ततो विभिन्ननिमित्तनिबन्धनत्वात्सत्त्वासत्त्वयोर्भेदः । एकान्ताभेदे तु सत्त्वासत्त्वयोर्विभिन्ननिमित्तनिबन्धनत्वानुपपत्तिः । तथा हि-यदेकान्तेनाभिन्नं न तत्र विभिन्ननिमित्तनिबन्धनत्वं यथा २० सत्त्वे, असत्त्वे वा । एकान्तेनाभेदश्च सत्त्वासत्त्वयोर्भवद्भिरिष्ट इति ।
प्रतिनियतसदसत्प्रत्ययगोचरचारित्वानुपपत्तिश्चानयोस्तत एव तद्वत् । अभिन्ननिमित्तनिबन्धनत्वे च तत्प्रत्यययोः सर्वत्र हेतुभेदात्फलभेदः, इत्यभ्युपगमो विरुध्येत । ततः सत्त्वासत्त्वयोर्वस्तुनि प्रतीति भूधरशिखरारूढं कथंचित्तादात्म्यं प्रतिपत्तव्यम् । विस्तरतस्तु सदसदात्मक२५ वस्तुविचारः श्रीमंदनेकान्तजयपताकातः प्राज्ञैर्विज्ञेयः । तस्माद्दोषापगम विशदान्मानतः संप्रसिद्धे सत्त्वासत्त्वाभयपरिगते विश्ववस्तुप्रपञ्चे ||
७४६
१ अ. ज. प. प्रथमः परिच्छेदः ।
"Aho Shrut Gyanam"