________________
परि. ५ सू. ८ ]
स्याद्वादरत्नाकरसहितः
७३५
पटात्मत्वाभावेन तत्र तन्निषेधं कर्तुमसमर्थत्वात् । द्वितीयपक्षे त्वस्मन्मतसिद्धिः । पटाभावस्य घटधर्मस्य घटात्मकत्वात्पटनिषेधकत्वेनाम्माभिः स्वीकारात् । अथ यदि घटधर्मोऽसौ तदा कथं घटे पटो. नास्तीति पटसामानाधिकरण्येन तत्प्रतीतिः । तद्सत् । संसर्गमात्रप्रतिषेधत्वादस्य भूतले घटो नास्तीतियत् । इह तु तादात्म्यप्रतिषेधस्य ५ प्रक्रान्तत्वात् । तत्र च घटः पटात्मा न भवतीति प्रतीभवत्येव घटसामानाधिकरण्यं पटाभावस्य । एवं पटधर्मत्वे घटाभावस्य सर्व वाच्यम् । यथा हि घटः पटात्मा न भवतीति प्रतीतिरम्ति तथा पटो घटात्मा न भवतीत्यपि । ततोऽपि घटात्मा पटाभावो घटधर्मः पटात्मा च घटाभावः पटधर्म इति युक्तम् । संग्रहनयाभिप्रायादुभयधर्मताप्य- १०. म्याविरुद्धैवेति । न चाभाव एवेतरेतरामावस्येति सौगतः कल्पनीयम् । घटादेः सर्वात्मकत्वप्रसंगात् । तथा हि-यथा घटस्य स्वदेशकालाकारादिना सत्त्वं तथा यदि परदेशकालाकारादिनापि तथा सति स्वदेशादित्ववत्परदेशादित्वप्रसक्तेः कथं न सर्वात्मकत्वं, अथ परदेशादित्ववत्स्वदेशादित्वमपि तस्य नास्ति । तदा सर्वथाऽभावप्रसक्तिः । १५ अथ यदेव स्वसत्त्वं तदेव परासत्त्वम् । नन्वेवमपि यदि परासत्त्वे स्वसत्त्वम्यानुप्रवेशस्तदा सर्वथाप्यसत्वम् । अथ स्वसत्त्वे परासत्त्वस्य तदा परासत्त्वस्याभावात्सर्वात्मकत्वम् । यथाहि स्वासत्त्वासत्त्वास्वतत्त्वं तस्य तथा परासत्त्वासत्त्वात्परसत्वप्रसक्तिरनिवारितप्रसरा विशेषाभावात् । न च परासत्वं कल्पितरूपमिति न तन्निवृत्तिः पर- २०. सत्त्वात्मिकेति वाच्यम् । स्वासत्त्वेऽप्येवं प्रसंगात् । अथ नाभावनिवृत्त्या पदार्थो भावरूपः प्रतिनियतो वा भवति । अपि तु म्वहेतुसामग्रीतः स्वस्वभावनियत एवोपजायते । तथैव चार्थसामर्थ्य भाविनाऽध्यक्षेण विषयी क्रियमाणो व्यवहारपथमवतायो, इति किमितरेतराभावकल्पनया । उच्यते । किंचिकेवलम्वसामग्रीतः स्वम्वभावनियतोत्प- २५ त्तिरेच परासत्त्वात्मकत्वन्यतिरेकेण नोपपद्यते । स्वस्वरूपनियतप्रतिभासनं
"Aho Shrut Gyanam"