________________
परि. ५ सु. ८]
स्याद्वादरत्नाकरसहितः
कारणम् । प्रत्यासत्तिश्च द्वेधा । लध्धी महती च । कार्येण सहैकस्मिन्नर्थे समवायो लब्बी । यथा पटेन सार्धमेकस्मिंस्तन्तुरूपेऽर्थे समवेतस्य तन्तुसंयोगस्य । कार्यकारणेन साकमेकस्मिन्नर्थे समवायो महती । यथा पटगतरूपादिसमवायिकारणेन पटेन सममेकस्मिस्तन्तुरूपेऽर्थे समवेतानां तन्तुरूपादीनाम् । तदेतदुभयमप्यसमवायि- ५ कारणम् । शेषं तूत्पादकं निमित्तकारणम् । यथाऽदृष्टाकाशादि । एवं च संयोगादेरपेक्षणीयस्याभावादविकलकारणत्वं तेषामसिद्धमित्यपि श्रद्धामात्रम् । यतोऽसौ संयोगः सत्तामात्रेण तेषामपेक्षणीयः स्यादतिशयाधायकवेन वा । आधे पक्षे सर्व सर्वस्यापेक्षणीयं स्यात्सत्तामात्रम्प सर्वत्राविशेषात् । द्वितीये त्वभिन्नो १० भिन्नो वासौ तेन तेषामाधीयते । यद्यमिन्नस्तदा तेषां कार्यत्वापत्तिः । अथ भिन्नं कथंचित्सर्वथा वा । कथंचिच्चेचिर जीवतात् । कथंचित्कार्यतायास्तेषामित्थमूरीकरणात् । सर्वथा चेत्कथं तेषामेवाय व्यपदिश्येत । संबन्धाच्चेत्कः पुनरयं स्यात्, समवायः संयोगो विशेपणीभावोऽविष्वग्भावो वा । नाद्यः । समवायस्य क्षेप्स्यमानत्वात् । १५ न द्वितीयः । तस्य द्रव्यत्वापत्तेः । संयोगस्य गुणत्वेन द्रव्याधारत्वान्न तृतीयः । तदुभयाभावे विशेषणीभावाङ्गीकरणेऽतिप्रसंगात् । तुरीयस्तु स्यात् । परमाणूनां कथंचित्कार्यतासमर्पणेन पवित्रत्वात् । किं च , एकान्तेन भिन्नः सन्नुपकार्योपकारकभावं विना कथमयं तत्र संबध्येत ! उपकारकरणे च भेदाभेदविकल्पदिशा तदेवावर्तत इत्यनव- २०. स्थादौःस्थ्यं नापनीपद्यते । अथ संयोग एवामीषामतिशयेनामुनातिशयः कश्चिदासूत्र्यते तर्हि नित्योऽनित्यो वाऽयं भवेत् । नित्यश्चेत्, नित्यं कार्योत्पत्तिः । तदतिशयभूतम्न संयोगस्य नित्यं सत्त्वात् । अथानित्यस्तदा तदुत्पत्तौ कोऽतिशयः, संयोग एव क्रिया वा । संयोगश्चेत्किं स एव , संयोगान्तरं वा । नाद्यः । तस्याद्याप्यसिद्धेः । स्वो- २५ स्पतौ स्वस्यैव व्यापारविरोधाच्च । नापि संयोगान्तरम् । तदपि. हि..
"Aho Shrut Gyanam"