________________
परि. ३ सू. ४] स्याद्वादरत्नाकरसहितः मानस्यापूर्वस्याप्यर्थीशस्याधिगमसम्भवात्मामाण्यमिष्यते । हन्त कथमेवं स्मरणस्यापि प्रामाण्यं न स्यात् । तत्रापि वर्तमानकालावच्छेदेनाधिगतस्यार्थस्यातीतकालावच्छेदेनाधिगतेरपूर्वांशाधिगमोपपत्तेः । समर्थितं चैतत्प्रथमपरिच्छेदे गृहीतार्थग्राहित्वेनापि ज्ञानस्य प्रामाण्यम् । तन्न गृहीतार्थग्राहित्वात्स्मरणस्याप्रामाण्यम् । नापि परिच्छित्तिविशेषाभावात्। ५ निहितमन्त्रिताधीतादौ हानोपादानहेतो: परिच्छित्तिविशेषस्य स्मरणे सद्भावात् । नाप्यसत्यतीतेऽर्थे प्रवर्त्तमानत्वात्तस्याप्रमाणता, यतोऽतीतस्यार्थस्य स्वकालेऽसत्त्वं स्मृतिकाले वा । न तावत्स्वकाले, तदा तस्य विद्यमानत्वात् । स्मृतिकाले तु तस्यासत्त्वं नाप्रामाण्यं प्रत्यङ्गम् । प्रत्यक्षस्याप्यप्रामाण्यप्रसत्तेः । न हि प्रत्यक्षग्राह्योऽर्थः प्रत्यक्षकाले १० सौत्रान्तिकैः सत्त्वेनाभ्युपगम्यते । "भिन्नकालं कथं ग्राह्यमिति चेद्राह्यतां विदुः।। हेतुत्वमेव युक्तिवास्तदाकारार्पणक्षमम् ॥१॥" इत्यस्य विरोधानुषङ्गात् । एकान्ततोऽसत्यर्थे स्मरणमुत्पद्यत इति न नः पक्षः । अर्थादनुत्पद्यमानत्वं च स्मरणस्यासिद्धम् । स्वविषयभूतादनुभूतादादुत्पद्यमानत्वात् । विसंवादकत्वमपि स्मरणस्याप्रसिद्धम् । १५ स्वप्रतिपन्ने वस्तुन्यविसंवादकत्वात्तस्य । अविसंवादो हि गृहीतार्थे प्राप्तिः प्रमाणान्तरप्रवृत्तिवा स्यात् । स द्विविधोऽपि स्मृतिप्रतिपन्ने स्वयं धृतद्रव्याद्यर्थे समस्त्येव ! यत्र तु विसंवादः स स्मरणाभासः । प्रत्यक्षाद्याभासवत् । समारोपव्यवच्छेदकत्वमपि स्मरणस्यासिद्धम् । स्वविषयभूते साध्यसाधनसम्बन्धादौ तस्य समारोपव्यवच्छेदकल्वसम्भवात्। २० अन्यथाऽनुमाने दृष्टान्ताभिधानानर्थक्यापत्तिः । साध्यसाधनसम्बन्धस्मरणार्थं हि तत्र दृष्टान्ताभिधानम् । इतरथा हेतुरेव केवलोऽभिधीयेत । ततस्तदभिधानान्यथानुपपत्तेः स्मृतिविषयभूते सम्बन्धादौ विस्मरणसंशयविपर्ययरूपः समारोपोऽस्तीत्यवगम्यते । तव्यवच्छेदकत्वाच्च स्मरणस्य प्रामाण्यम् । प्रयोगः, यत्समारोपव्यवच्छेदकं तत्प्रमाणम्, २५ यथानुमानम्, समारोपव्यवच्छेदकं च स्वप्रतिपन्नेऽर्थे स्मरणमिति ।
"Aho Shrut Gyanam"