________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ३ सू.१ । अत्रोदाहरणमाहनास्त्येव सर्वथैकान्तोऽनेकान्तस्योपलम्भादिति
॥१॥ __प्रतिषेध्यो ह्यत्र सर्वथैकान्तः सदेव सर्वमित्यादिकस्तस्य सम्बन्धिना ५ स्वभावेन सह विरुद्धोऽनेकान्तः कथश्चित्सदसदात्मकत्वादिस्तस्योपलम्भः स्वभावविरुद्धोपलब्धिरिति । अत्राह सौगतः--यावान्कश्चिनिषेधः सर्वोऽप्यनुपलम्भादेवेतीयमपि स्वभावविरुद्धोपलब्धिनिषेधावबोधं विदधानाऽनुपलब्धावेवाऽन्तर्भावमर्हति तत्कथमुपलब्धिभेदत्वेनासावुदाहृतेति ।
तदप्यनुपपन्नम् । अनुपलब्धिशब्दस्यात्राश्रयमाणत्वात् । अथ विरु, १. योः सर्वथैकान्तानेकान्तयोर्वहिशीतस्पर्शयोरिव प्रथम विरोधः स्वभावा
नुपलब्ध्या प्रतिपन्न इत्यनुपलब्धिमूलत्वात्स्वभावविरुद्धोपलब्धेरनुपलब्धिरूपत्वं युक्तमेवेति चेत् । तदपि न क्षोदक्षमम् । अनुमानस्याप्येवं प्रत्यक्षवप्रसङ्गात् । यथैव हि स्वभावानुपलब्धिबलाविरुद्धयोर्विरोधे क्वचित्प्र. तिपन्ने सति स्वभावविरुद्धोपलब्धिः प्रवर्तते तथैव साध्यधर्मिणि भूधरादौ साधने च धूमादावध्यक्षतः समधिगते सति साध्ये धूमध्वजादावनुमानं प्रवर्तत इति प्रत्यक्षमूलत्वादनुमानमपि कथं प्रत्यक्षं न स्थादिति । तदुक्तम् "यावान्कश्चिनिषेधोऽत्र स सर्वोऽनुपलम्भनात् ।। यत्तदेष विरुद्धोपलम्भोऽस्त्वनुपलम्भनम् ॥१॥ इत्ययुक्तं तथाभूतश्रुतेरनुप
लम्भतः ।। तन्मूलत्वात्तथाभावे प्रत्यक्षमनुमाऽस्तु ते॥२॥यथैवा२० नुपलम्भेनं विरोधे साधित क्वचित् ।। स्वात्स्वभावविरुद्धोपलब्धि** वृत्तिस्तथैव च ।। ३॥ लिङ्गे प्रत्यक्षतः सिद्धे साध्यमिणि वा
कचिंत ॥ लिङ्गिज्ञान प्रवत्तेत नाऽन्यथातिप्रसङ्गतः ॥ ४॥ इति । ततः.. स्वभावविरुद्धोपलब्धेर्नानुपलब्धावन्तर्भावः कर्तुं युक्तः । एवं. नेह
शीतं वैश्वानरस्य दर्शनादित्याद्यपि द्रष्टव्यम् ॥ ८१॥ २५. आय विरुद्धोपलब्धेः प्रकारं प्रदर्य शेषान्प्रदर्शयन्नाह----
.
"
..
.
..
...
.
.
.
.
"Aho Shrut Gyanam"