________________
परि. २. २७ ]
नुकूल एव । यतोऽत्र विग्रहगत्यापन्नादिव्यतिरिक्तप्राणिनामाहारमात्रेणाहारकत्वमुक्तम् । तत्र च कवलाहारस्याप्यविरोधः । विरोधे तु भवतोऽप्येतादृशस्यैवाहारस्यापत्त्या प्रतिदिनं प्रतिगृहं प्रतिबुद्धविशुद्धश्रद्धसम्बन्धबन्धुरश्राद्धपाणिपद्मोपनीयमानप्रबल विगलदाज्यनिग्धमुग्धाहाराभ्यवहारप्रतिहारः प्रसज्येत । अथात्रापि यथा सम्भवमाहारव्यवस्थानादस्मदादीनां कवलाहारोऽपि कल्पते नतु केवालन इति चेत् । ननु कुतः केवलिनः कवलाहारासम्भवः । मोहाभावादिति चेत् । न, मोहे क्षुत्कारणत्वस्य निराकरिष्यमाणत्वात् । यदप्यवाचि अन्यथा निरन्तराहारः कवलाहारेण भगवान् केवली भवेदिति । तदपि न सुव्यवस्थितम् । विशिष्टाहारस्य विशिष्टकारणप्रभवत्वा- १०द्विशिष्टकारणस्य च प्रतिक्षणमसम्भवाद्भगवति कवलाहारस्य कादाचित्कत्वोपपत्तेः । यस्तु पुद्गलादानलक्षणो लोमाद्याहारस्तस्य प्रतिक्षणमपि तत्र सद्भावो न विरुध्यते । प्रतिक्षणभाविस्वकारणाधीनप्रवृतिकत्वात् । यच्चान्यदाशङ्कितं यथासम्भवमाहाख्यवस्थितेरित्यादि तदुपपन्नमेव । न हि देशोनपूर्वकोटीं यावद्विशिष्टाहारमन्तरेणौदारिक- १५. शरीरस्थितिः सम्भविनी । निरुपक्रमायुष्कत्वात्केवलिनः सम्भवत्ययमिति चेत् । ननु निरुपक्रमायुकत्वं स्थावस्थायामप्यस्त्येव ततस्तदापि भोजनं कुतः कुर्यात् । तदन्तरेणापि देहस्थितेः सम्भवात् । तार्क निरुपमायुकत्वं देहस्थितेः कारणं न भवतीत्यभिप्रायो भवताम् । नैवम् । किन्तु यथा स्वकारणसद्भावाच्छ अस्थावस्थायामसौ २०निरुपमायुकत्वेऽपि भुंक्ते तथा तत एव केवलिदशायामपि भुञ्जानः कथं निषिध्यत इत्यभिप्राय: । ननु छ स्थावस्थायां मोहनीय कर्मवशोपजातमधुरादिरसास्वादलौल्यातिरेकात्कवलनं कुरुतेऽसौ न केवल्य
स्याद्वादरत्नाकरसहितः
|
१ अस्मन्मुद्रारिमतत्त्वार्थावगमसूत्रेषु पृ. ४८ टि० २. २ तत्त्वार्थ. अ. ४ सू. १९. ३ न ह्येषां प्राणापानाहारनिरोधाध्यवसाननिमित्तवेदनापराधातस्पर्शाख्याः सप्त वेदना विशेषाः सन्त्यायुषो भेदका उपक्रमा इत्यतो निरुपकमा एव ।
"Aho Shrut Gyanam".
४६३