SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. २७ कवलाहारवति कथञ्चिच्छद्मस्थाद्विजातीयत्वस्य हेतोवर्तमानत्वात् । न खल्बस्मदादिच्छमस्थेन सह सर्वथा सजातीयः । प्रतीतिविरोधादैक्यापत्तेश्च । अथ छमस्थादछमस्थत्वेनैव धर्मे कथञ्चिद्विजातीयत्वं केवलिनः कथ्यते । ततो नानेकान्तोऽम्मदादाव५ छद्मस्थत्वेन विजातीयत्वस्य हेतोरवृत्तेरिति चेत् । तदचतुरस्रमेव । सन्दिग्धानकान्तिकत्वकलङ्कापत्तेः । प्रस्तुतहेतोः कवलाहारेण साधु विरोधासिद्धेः । न खलु कवलाहारभावाभावौ छद्मस्थत्वाछमस्थत्वप्रयुक्तौ । रसनेन्द्रियौदारिकशरीरादिपर्याप्तिवेद्यतैजसादिभावाभावप्रयु क्तत्वात्तयोरस्मदादौ सिद्धेषु च तथा दर्शनादिति प्रसाधयिष्यते । १० यच्च केवली कवलाहारवान् देहित्वादस्मदादिवदित्यनुमानमाशङ्कय दूषितं तदनभ्युपगतोपालम्भमात्रम् । यतो न देहित्वमानं केवलिनि कवलाहारवत्त्वकारणमभ्युपेयते, किं तर्हि विशिष्टपर्याप्त्यादिसामग्री। तस्याश्च ततोऽद्याप्यव्यावृत्तः । कथं तत्र कवलाहारवत्त्वाभावः सम्भवी । यदपि न्यगादि न खलु तत्र कवलाहारनिबन्धनमित्यादि । तत्रौदारिकव्यपदेशस्य भगवत्तनौ प्रधानपुद्गलारब्धत्वनिबन्धनत्वेऽपि न प्रस्तुतभुक्तेभगवत्यभावसिद्धिः। स्वकारणनिबन्धनायास्तस्यास्तत्र निवारयितुमशक्यत्वात् । यदप्येकेन्द्रियादिभिः सह निर्देशान्निरन्तराहारोपदेशाच्चेत्यवाचि ! तदप्यनल्पमात्सर्यादेशविस्फुरितमाशाम्बराणाम् । यथा खल्वम्मदादी नामेकेन्द्रियादिभिः सह निर्देशेऽपि निरन्तराहारोपदेशेऽपि च कवला२० हारोऽपि न विरुध्यते तथा केवलिनोऽपि नासौ विरोधी । न च नास्मदादीनामत्र सूत्रे आहारचिन्तापीति वाच्यम् । “एगिदियपभिइ" इति प्रभृतिशब्देन तेषां सूचनात् । तस्मादाहारसामान्यमिह विवक्षितम् । तत्र यदि कवलाहारोऽपि केवलिनि स्वकारणोपैढाकितः स्यात्तदा किं नाम क्षुण्णं भवेत् "विग्गहगइमावन्ना केवलिणो २५ समुहया" इत्याद्यागमोऽपि यः श्रूयते सोऽपि केवलिनः कवलाहारा अस्मन्मुद्रापिततत्त्वार्थाधिगमसूत्रेषु पृ. ५७. २ दिगम्बराणाम् ३ 'समोहया' इति पाठः सूत्रकृताङ्गे श्रु. २ अ. ३. "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy