________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २३ वेदार्थधीशून्यः शूद्रः पशुप्रायः समुपलभ्यत इति भवदाराध्यपुरुषोऽपि तथा स्यात् । पुरुषत्वस्योभयत्राप्यविशेषादित्यतिलोभाभिभूतस्य तवाहो अशनिनिपातः शिरसि । अथ पुरुषत्वाविशेषोऽपि तस्य रथ्यापुरुषादुत्त
मत्वाद्धर्मादिदीभाववेदनादिरतिशयो न विरुद्धयते । तर्हि तथाभूतस्यैव ५ पुरुषविशेषस्य धर्मादिदर्शनातिशयोऽपि मा विरोधीति संशयितसाध्यशू
न्यपदार्थव्यावृत्तित्वेन विसंवादित्वात् पुरुषत्वमपि नात्र हेतुः । ततो विवादाध्यासित इत्यादिरपि साध्यधर्मनिर्देशो न सुन्दरः । नापि विवादाध्यासिता धर्मादयः सिद्धान्तेनैव वेद्या इति । हेतोरत्रापि दुर्लभत्वात् । अथास्त्येव धर्मादिशब्दाभिधेयत्वादिति । नन्वतो हेतोः साम्प्रतपुरुषसदृशानां । पुंसां सिद्धान्तेनैव धर्मादिवेद्यत्वं साध्यतेऽन्यादृशानां वा । यदि साम्प्रतपुरुषसदृशानाम् । तदा सिद्धसाधनम् । अथान्यादृशानाम् । तदा तत्साधनेनैव बाधितविषयमिदमनुमानम् । तन्नानुमानमपि धर्मादीनां विशदसंवेदनवेद्यत्वं
बाधते । नापि शाब्दम् । ननु शान्तमेतत् । नित्यस्य सिद्धान्तस्य १५ तद्विधानपरस्यादर्शनाद्वाधादिहेतुत्वमेव हि व्यवसीयते । अथ स्वयम्भुवं
प्रतीत्य "स सर्वविद्यस्यैषा महिमा भुवि दिव्ये ब्रह्मपुरे ह्येषा व्योमात्मसु" इत्यादिना तत्र तत्र वेदे विश्ववेदिताप्रतिभासनपरा स्तुतिईश्यते । सत्यां तु विश्ववंदिताया धर्मादिदर्शनमपि सिद्धमेवेति न सिद्धान्तस्य तद्वाधाविधाथित्वमिति ! अशोभनभेतत् अस्याः स्तुतेः सर्वविधिपरत्वाभावात् । तस्य स्वान्तेनाधीतत्वात् । अनादेः सिद्धान्तस्यादिमिति धादिदर्शिनि प्रवृत्तावनादिताविरोधापत्तेः । अपि तु स्वयम्भुवमुद्दिश्य विधिश्रितस्य तथाविधाध्वरादेः प्रवर्तनायार्थवादमात्रमेतत् । अर्थवादास्तु विधिप्रशंसापरतया मानतां लभन्ते न
स्वतन्त्रतयेति सर्वदर्शिविधिसाधनं न भवति । तथा यदि नित्यः २५ सिद्धान्तः प्रमा । तदा निष्फलमेव सर्ववित्साधनम् धर्माद्यपदेशस्य
तत एव सिद्धेः । अनित्यस्य तु सिद्धान्तस्य सर्वदर्शिसाधनत्वं तद्वि
"Aho Shrut Gyanam"