________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. ७ अवग्रहेहावायज्ञानादनभ्यासात्मकादन्यदेव ह्यभ्यासात्मकं धारणाज्ञानस्वरूपं प्रत्यक्षं तैः कक्षीक्रियते तदभावात्परोपन्यस्तसमस्तमात्रावर्णादाववग्रहादित्रयसद्भावेऽपि स्मरणानुत्पत्तिः । तत्सद्भावे तु स्यादेव सर्वत्र तत् । यथाधारणं स्मरणाभ्युपगमात् । न च सौगतानामप्ययं युक्तः, ५ दर्शनभेदाभावात् । एकस्यैव दर्शनस्य कचिदभ्यासादीनामितरेषां च तै. रभ्युपगमात् । अस्य चाभ्युपगमस्याघटमानत्वात् । तथा चावाचि प्रकरणचर्तुदशशतीसमुत्तुङ्गप्रासादपरम्परासूत्रणैकसूत्रधारैरंगाधसंसारवाड़ि निमज्जज्जन्तुजातसमुत्तारणप्रवणप्रधानधर्मप्रवहणप्रवर्तनकर्णधारैर्भगवतीर्थकरप्रवचनावितथतत्त्वप्रबोधप्रस्तुतप्रवरप्रज्ञाप्रकाशतिरस्कृतसमन्ततीर्थकचक्रप्रवादध्वान्तप्रचारैः प्रस्तुतनिरतिशयस्याद्वादविचारैः श्रीहरिभद्रसूरिभिः शास्त्रवार्तासमुच्चये एकत्र निश्चयोऽन्यत्र निरंशानुभवादपि । न तथा पाटवाभावादित्यपूर्वमिदं तमः' इति । न च तव्यावृत्तिद्वारेणैकस्यापि दर्शनस्याभ्यासेतरादियोगः । स्क्यमतत्स्वभावस्य तदन्य
व्यावृत्तिसम्भवे पावकस्य शीतादिव्यावृत्तिप्रसङ्गात् । तत्स्वभावस्य तदन्य१५ व्यावृत्तिकल्पने फलाभावात् । प्रतिनियततत्स्वभावस्यैवान्यव्यावृत्ति
रूपत्वात् ।
२०
स्यान्मतमभ्यासादिसापेक्षं तन्निरपेक्षं वा दर्शनं न विकल्पकस्योप्राचीनविकल्पवासना- त्पादकं प्राचीनविकल्पवासनाप्रभवत्यात्तस्य । प्रभवत्वमेव विकल्पस्येति तदावासनाया अपि तदावासनाप्रभवत्वमनादिबौद्धशङ्कानिरासः।
वाद्विकल्पजनकवासनासन्तानस्येति । सभासदः सादरमेतदेकं विलोक्यतां कौतुकमस्य भिक्षोः ॥ उपेक्ष्य पक्षं सहसा स्वकीयं यदल्पधीक्ति विलूनशीर्णम् ॥७॥
निर्विकल्पकस्य हि विकल्पाजनकत्वे 'यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता' इत्यस्य विरोधानुषङ्गः । कथं वा वासनाविशेषप्रभवाद्विकल्पा११४४४ ग्रन्था हरिभद्रकृता इति प्रथितिः । २. चतुर्थस्तबके श्लो. २५.
"Aho Shrut Gyanam"