________________
परि. १ सू. ७ ]
स्याद्वाद रत्नाकरसहितः
त्प्रत्यक्षस्य रूपादिविषयत्वनियमो मनोराज्यादिविकल्पादपि प्रत्यक्षस्य रूपादिविषयत्वनियमप्रसक्तेः । प्रत्यक्षसहकारिणो वासनाविशेषादुत्पन्नाद्रूपादिविकल्पात्प्रत्यक्षस्य रूपादिविषयत्वनियमेऽभ्युपगम्यमानेऽनुमानसाध्यत्वाभिमतक्षणिकताविषयत्वनियमोऽपि यथोक्तहेतोरुत्पन्नात् । क्षणिकत्वविकल्प देवाभ्युपगम्यताम् | अन्यथा रूपादिविषयत्वनियमोsप्यतो माभूदविशेषात् । तथा च क्षणिकत्वगोचरो विकल्पः प्रत्यक्षस्य क्षणिकत्वगोचरत्वनियमहेतुत्वान्यथानुपपत्तेरिति प्रसज्यते । रूपाद्युल्लेखित्वाद्विकल्पस्य तद्बलात्तन्नियमस्यैवाभ्युपगमे प्रत्यक्षस्याभिलापसंसर्गोऽपि तद्धेतुरनुमीयेत विकल्पस्याभिलापोल्लेखितयोत्पत्त्यन्यथानुपपत्तेः । किञ्च निर्विकल्पक दर्शनस्याप्रमाणसिद्धत्वादात्मैवाहंप्रत्ययप्रसिद्धः प्रतिबन्धका १० पायेऽभ्यासाद्यपेक्षो विकल्पोत्पादकोऽस्तु किमदृष्टपरिकल्पनया |
अपि च सविकल्पक प्रत्यक्षस्याप्रामाण्यं किं स्पष्टाकारविकत्वात्, सविकल्पकप्रत्यक्षस्यात्रा - गृहीतग्राहित्यात्, असति प्रवर्तनात्, हिताहितमाण्यढेतवो विकल्प्य प्राप्तिपरिहारासमर्थत्वात् कदाचिद्विसंवादात्,
खण्डिताः ।
समारोपस्यानिषेधकत्वात्, व्यवहारानुपयोगात्, स्वलक्षणागोचरत्वात्, १५ शब्दसंसर्गयोग्यप्रतिभासत्वात् शब्दप्रभवत्वाद्वा स्यात् । न तावदस्पष्टाकारत्वात्तस्याप्रामाण्यं अप्रसिद्धत्वात्, अनुमानस्याप्रामाण्यानुषङ्गाच्च । नापि गृहीतग्राहित्वात् । अनुमानाप्रामाण्यानुषङ्गादेव व्याप्तिज्ञानयोगसंवेदनाभ्यां गृहीतस्यार्थस्य तेन ग्रहणात् । कथं वा शब्दविषयस्य क्षणक्षयानुमानस्य प्रामाण्यं शब्दरूपावभास्यध्यक्षावगतक्षणक्षय- २० विषयत्वात् । नाप्यसति प्रवर्तनात् निर्विकल्पकस्याप्रामाण्यानुषङ्गात्तद्विषयस्यापि तत्काले सत्त्वाभावविशेषात् । हिताहितप्राप्तिपरिहारासमर्थत्वात् इत्यप्यसम्भाव्यमेव । सविकल्पक प्रत्यक्षादेव हिताहितप्राप्ति परिहारसिद्धेः । कदाचित्तदभावः पुनर्निर्विकल्पकेऽपि समानः । कदाचिद्विसंवादादित्यप्यसाम्प्रतम् । निर्विकल्प- २५ कस्याप्यप्रामाण्यप्रसङ्गात् । तिमिराद्युपहतचक्षुषोऽर्थाभावेऽपि तत्प्रवृत्ति
4
" Aho Shrut Gyanam"
८७