________________
८८
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. ७ दर्शनात्, भ्रान्तादस्य भेदोऽन्यत्रापि समानः । समारोपानिषेधकत्वादित्यप्यरमणीयम् । विकल्पविषये समारोपासम्भवात् । नापि व्यवहारानुपयोगात् । सकल व्यवहाराणां विकल्पमूलत्वात् । स्वलक्षणागोचरत्वादित्यसमीक्षिताभिधानम् ! अनुमानेऽप्यप्रामाण्यप्रस५ ङ्गात् । त्वन्मत्या विकल्पस्येवानुमानस्यापि सामान्यगोचरत्वात् । न
चानुमानग्राह्यस्य सामान्यरूपत्वेऽप्यध्यवसेयस्य स्वलक्षणरूपत्वाद्दश्यविकल्प्यावावेकीकृत्य ततः प्रवृत्तेरनुमानस्य प्रामाण्यम् । प्रकृतविकल्पेऽप्यस्य समानत्वात् । शब्दसंसर्गयोग्यप्रतिभासत्वादित्यप्यसमीचीनम् । अनुमानेऽपि तुल्यत्वात् । शब्दप्रभवत्वादित्यप्यसाम्प्रतम् । शब्दस्वलक्षणाध्यक्षस्याप्यप्रामाण्यप्रसङ्गात् । ग्राह्यार्थं विना शब्दमात्रप्रभवत्वं त्वसिद्धमस्माकं नीलादिविकल्पानामर्थे सत्येव भावात्, कस्यचित्तु तमन्तरेणापि भावो निर्विकल्पकेऽपि समानः । द्विचन्द्रादिनिर्विकल्पकस्यार्थाभावेऽपि भावात् । भ्रान्तादम्रान्तस्य भिन्नत्वमत्रापि तुल्यम् । एवं तावत्परेषामुपशमपदवी प्रापिताः सर्वतोऽमी
स्याद्वादस्वाददिग्धैः करणकृतमतौ निर्विकल्पप्रवादाः । एवं चाध्यक्षबाधा भवतु कथमिव प्रोक्तपक्षैकदेशे
सिद्धा सन्तस्ततश्च व्यवसितिसुभगा मानभूतेह बुद्धिः ॥७७॥ अत्राहुः शब्दब्रह्मवादिनः ।।
. प्रियं प्रियं नः सकलापि बुद्धिः - शब्दब्रह्मवादिमतं सविस्तरमुद्भाव्य खण्डितम् । प्रमाणभूता व्यवसायिनी यत् ।।
न युज्यते तु व्यवसाय एव
शब्दानुवेधं परिमुच्य जातु ॥ ७८ ॥ शब्दसम्पर्कपरित्यागे हि प्रत्ययानां प्रकाशरूपताया एवाभाव
२०
... . ' अपि ' इत्यधिक भ. म. पुस्तकयोः । २ ‘चासिद्ध ' इति म. पुस्तके पाठः।
"Aho Shrut Gyanam"