SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ परि, १ सू. ७ ] स्याद्वादरत्नाकरसहितः प्रसक्तिः । वाग्रूपता हि शाश्वती प्रत्यवमर्शनी च तदभावे प्रत्ययानां नापरं रूपमवशिष्यते । तदुक्तम् । 'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्व शब्देन वर्त्तते ॥१॥ वाग्रूपता चेत् व्युत्क्रामेत् अवबोधस्य शाश्वती। न हि बोधः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥२॥' इति सा चेयं वाक् त्रैविध्येन व्यवस्थिता वैखरी मध्यमा पश्यन्तीति । तत्र येयं स्थानकरणप्रयत्नक्रमव्यज्यमानाकारादिवर्णसमुदायात्मिका । वाक् सा वैखरीत्युच्यते । तदुक्तम् । 'स्थानेषु विधृते वायौ कृतवर्णपरिग्रहा । वैखरी वाक् प्रयोक्तृणां प्राणवृत्तिनिबन्धना ॥ १॥' अस्यार्थः । स्थानेष्विति ताल्वादिस्थानेषु । वायौ प्राणसंज्ञे । विधृतेऽभिघातार्थं निरुद्धे सति कृतवर्णपरिग्रहेति हेतुद्वारेण विशेषणं ततः ककारादिवर्णरूपस्वीकारात् वैखरीसंज्ञा वक्तृभिर्विशिष्टायां खरावस्थायां स्पष्टरूपायां भवा वैखरीति निरुक्तेः । वाक्प्रयोक्तृणां सम्ब- १५ धिनी । यद्वा तेषां स्थानेषु तस्याश्च प्राणवृत्तिरेव निबन्धनं तत्रैव निबद्धा सा तन्मयत्वादिति । या पुनरन्तःसङ्कल्प्यमाना . क्रमवती श्रोत्रग्राह्यवर्णरूपाभिव्यक्तिरहिता वाक् सा मध्यमेत्युच्यते । तदुक्तम् । 'केवलं बुद्धापादानात्कमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक प्रवर्तते ॥१॥ अस्यार्थः । स्थूलां प्राणवृत्तिं हेतुत्वेन वैखरीवदनपेक्ष्य केवलं बुद्धिरेवोपादानं हेतुर्यस्याः सा प्राणस्थत्वात्नमरूपमनुपतति । अस्याश्च .. १ वाक्यपदीये प्रथमकाण्डे श्लो. १२४, १२५. २ 'प्रकाशः प्रकाशेत' इति भ. प. पुस्तकयोः पाठः । ३ ' उपादानां' इति भ. पुस्तक तथा 'उपादान' इति प. पुस्तके पाठः । २० "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy