SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. ७ मनोभूमाववस्थानं, वैखरीपश्यन्त्योर्मध्ये भावान्मध्यमा वागिति । या तु ग्राह्यभेदक्रमादिरहिता स्वप्रकाशा संविद्रूपा वाक् सा पश्यन्तीत्युच्यते । तदुक्तम् । __ 'अविभागा तुं पश्यन्ती सर्वतः संहतकमा । ५ स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ॥ १ ॥' अस्यार्थः । पश्यन्ती यस्यां वाच्यवाचकयोर्विभागेनावभासो नास्ति सर्वतश्च सजातीयविजातीयापेक्षया संहृतो वाच्यानां वाचकानां च क्रमो देशकाल कृतो यत्र क्रमविवर्तशक्तिस्तु विद्यते । स्वरूपज्योतिः स्वप्रकाशा वेद्यते वेदकभेदातिक्रमात् । सूक्ष्मा दुर्लया । अनपायिनी १० कालभेदास्पर्शादिति । अपि च सकलमेवेदं वाच्यवाचकतत्त्वं शब्दब्रह्मण एव विव? नान्यविवों नापि स्वतन्त्रमिति । यथोक्तम्- अनादिनिधनं शब्दब्रह्मतत्त्वं यदक्षरम् । विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ १॥ अनादिनिधनं हि शब्दब्रह्म उत्पादविनाशाभावात् । अक्षरं चाकारा१५ द्यक्षरस्य निमित्तत्वात् । अनेन वाचकरूपता ! अर्थभावेनेत्यनेन तु वाच्यरूपता सूचिता । प्रक्रियेति भेदाः, शब्दब्रह्मेति नामसंकीर्तनमिति । व्यवहारोऽपि सकलः शब्दानुविद्ध एवानुभूयते । न हि भोक्ष्ये दास्यामीत्याद्यनुल्लिखितशब्दः कश्चिदपि स्वयं भोजनदानादि निष्पत्तये प्रयतते । परं वा मुंव देहीत्यादिशब्दं विना प्रवर्त्तयति । २० जीवितमरणस्वरूपाविर्भावोऽपि शब्दाधीन एव । तथाहि सुषुप्ति दशायामनुल्लिखितशब्दस्वरूपत्वान्न कश्चित्पञ्चता प्राप्ताद्विशिष्यते। तदुत्त. रसमयं तु कुतश्चिच्छब्दात् प्रबुद्धः पुमान् शब्देनैवान्तर्जल्पात्मनात्मानमनुसन्धानो जीवितमनुव्रजति । न चाद्वयरूपे तत्त्वे कथमाविर्भावतिरोभावादिरूपभेदप्रपञ्चप्रतिभासः स्यादिति वचनं चेतसि निधेयम् । अविद्या १'नु' इति भ. प. पुस्तकयोः पाठः । २ वाक्यप. कां १. श्लो. १. "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy