________________
परि. १ सू..] स्याद्वादरत्नाकरसहितः तस्तत्र तत्प्रतिभासाविरोधादाकाशवत् । यथैव हि तिमिरतिरस्कृतलोचनो जनो विशुद्धमप्याकाशं विचित्ररेखानिकरकरम्बितमिव मन्यते । तथाऽनादिनिधनमभिन्न स्वभावमपगतनिखिलभेदप्रपञ्चमपि शब्दब्रह्माविद्यातिमिरविधुरितविवेकलोचनः प्रादुर्भावतिरोभावादिभेदप्रपञ्चान्वितमिव प्रतिपद्यते । तद्रुक्तम् ।
'यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । संकीर्णमिव मात्राभिश्चित्राभिरभिमन्यते ॥१॥ तथेदममलं ब्रह्म निर्विकारमविद्यया । कलुषत्वमिवापन्नं भेदरूपं तु पश्यति ॥ २॥" इति । सकलाविद्याविलासविलये तु योगिनस्तत्प्रपञ्चानन्वितं यथावत्त- १० स्स्वरूपं प्रतिपदान्ते । यथा च वीचीबुहुदफेनरूपो वारिविकारः सारभूतममलं जलमाविर्भावतिरोभावार्थमपेक्षते तथा व्यावहारिकः स्थूलोऽयमकारादिशब्दमेदप्रपञ्चः परमसूक्ष्मप्रतिभासमात्रैकरूपं सर्वशब्दविषयविज्ञानप्रसवनिमित्तं काप्यनियमितैकनिजस्वभावं शब्दमयं ब्रह्मापेक्षते । उक्तं च
- 'अनुविद्धैकरूपत्वाद्वीचीबुद्रुदफेनवत् । वाचः सारमपेक्षन्ते शब्दब्रह्मोदकाद्वयम् ॥ १॥' इति । वाग्रूपतामवगणय्य जगत्सु नैव
कस्यापि किञ्चन कदाचन संचकास्ति । संवेदनं तदिह शब्दमयं प्रसिद्ध
स्यादन्यथा कथमिवास्य ननु प्रकाशः ॥ ७९ ॥ एतत्समीरणसमीरितनीरबिन्दु.
नाशं विनश्यतु सतां पुरतः समस्तम् ॥ यस्मात्प्रमाणपरिपन्थि निरुप्यमाणं
दारेषु गौरवमुपैति न कोविदेषु ॥ ८० ॥ - १ 'आपन्न' इति पं. म. पुस्तकयोः पाठः ।
"Aho Shrut Gyanam"