________________
२
प्रमाणनयतत्वालोकालङ्कारः [परि. १ सू. ७ तथाहि यत्तावदवादि शब्दानुवैधं परिमुच्य जात्वित्यादि । तत्र कोऽयं शब्दानुवेधो नाम । बोधस्य शब्देन संयोगविशेषः पारदेनेव ताम्रादेरिति चेत् । तदिदमतिरभसेन विस्मृत्य स्वमतमुक्तमायुष्मता। शब्दाद्वैतवादी हि भवान् न च तत्र शब्दो बोधश्चेति द्वयमस्ति । द्वैतप्रसक्तेः द्वैताभावे च शब्दबोधयोरसम्भवी संयोगविशेषः । तस्य द्वैतेनैव व्याप्तत्वात् । न चाद्वैतवादुर्विदग्धानां संयोगोऽपि कश्चिदस्ति द्वैतप्राप्तेरेवेति । न संयोगविशेषोऽनुवेधशब्दवाच्यः शब्देन बोधस्य तादात्म्यमनुवेधो नीलगुणेनेव पटादेरिति चेत् । तदप्यविशदम् । शब्द
बोधयोरेकान्तेन तादात्म्येऽनुवेधशब्दप्रयोगस्यायोगात् । न हि १० प्रयुञ्जते यौक्तिकाः कुम्भस्य कुम्भेनानुवेध इति । ननु कथं पटादे
रनुवेधो नलिगुणेनेति प्रयुक्तिरिति चेत् । न गुणगुणिनोस्तादात्म्यैकान्तस्य निराकरिष्यमाणत्वात् । अस्तु वाऽनुवेधशब्दाभिधेयमेकान्तेन तादात्म्यं तदापीदं शब्दबोधयोनोपपद्यते। सति ह्यस्मिन् बोधस्याचेतनत्वं
स्यादचेतनशब्दताम्येनावस्थितत्वात्तथा चानुभवविरोधः । शब्दस्य वा १५ बोधमात्रतापत्तिरिति बोधमात्रवादसिद्धिः स्यात् । तथा च जिनदत्तेन
प्रोक्तः शब्दः समीपवर्तिनापि जिनदासेन न श्रुयेत । जिनदत्तबोधतादात्म्येन तस्यावस्थिततया जिनदासश्रवणसरणिं यावद्नुसरणासम्भवात् । अथ बोधात्माप्ययमनुसरति तां तेन श्रवणान्यथानुपपत्तेरिती
ष्यत तर्हि यः कश्चित् कस्यचिद्बोधः स सकल एकस्यापि शब्दस्य २० श्रवणे श्रोत्रा प्रतीयत । तस्य सकलप्रमातृबोधतादात्म्येनावस्थितत्वात् ।
तथा च सकलः श्रोता परचित्तपरिच्छेदकः स्याच्छब्दस्यैव चित्तत्वात् । तथा चाभाणि समन्तभद्रेण ।
'बोधात्मता चेच्छब्दस्य न स्यादन्यत्र तच्छ्रतिः । यद्बोद्धारं परित्यज्य न बोधोऽन्यत्र गच्छति' ॥१॥ इति, 'न च स्यात्प्रत्ययो लोके यः श्रोत्रा न प्रतीयते।। शब्दाभेदेन सत्येवं सर्वः स्यात्परचित्तवित् ॥ २॥ इति,
"Aho Shrut Gyanam"