SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. ७ ] स्याद्वादरत्नाकरसहितः 'अथाभिधीयते योऽयं शब्दात्मा विदितः सताम् । चेतनोऽचेतनवायमित्यभ्युपगमो मम ॥ ३॥ सिद्धयत्वेष तवायुष्मन्निःप्रत्यूहतया यतः । विश्ववैचित्र्यमेवेत्थं शब्दशब्देन शब्दितम् ॥ ४॥ विवादो न च नामास्ति नाम्नि वस्तुपरीक्षिणाम् । कश्चिन केचिदाचष्टे राममन्यस्तु रावणम् ॥ ५ ॥ तन्नैकान्ततादात्म्यं शब्देनानुवधो बोधस्याभिधातुं युक्तः । अपि चानयोस्तादात्म्यं कुतः प्रत्येयम् ! न तावत् प्रत्यक्षात् तस्य स्वस्माद्भेदेनैव शब्दग्रहणे शब्दाढ़ेदेनैव स्वग्रहणे प्रवृत्तः । नाप्यनुमानात्तस्य .. . निर्बाधस्य कस्यचिदसम्भवात् । अथ शब्दार्थयोस्तादात्म्यप्रसिद्धेः १० सिद्धमेव शब्देन बोधस्य तादात्म्यं बोधम्यार्थत्वादिति चेत् । तन्नोपपन्नम् । शब्दार्थयोस्तादात्म्यस्य कुतोऽप्यप्रसिद्धः । यत्प्रतीतावेव यत्प्रतीयते तयोस्तादात्म्यं यथा वृक्षत्वाशिंशपात्वयोः । शब्दप्रतीतादेव प्रतीयते च तदर्थ इत्यतोऽनुमानातत्सिद्धिरिति चेत् । तदचतुरस्रम् । त्वन्मतेन शब्दार्थयोस्तादात्म्यमिति शब्दार्थस्याघटनात्।तथाहि। शब्दार्थ- १५. योस्तादात्म्यमिति कोऽर्थः। यदि तदात्मनो वस्तादात्म्यमेवं तर्हि तौ द्वावपीष्टायेव पृथग्भावाभिधानादिति नानयोक्यमेव । अथ यत्र भवतामर्थ इति प्रसिद्धिरसौ शब्दपरिणाम एव । न खलु शब्दात्पृथगर्थ: कश्चिदस्ति । शब्दब्रह्मपरिवर्तमात्रत्वाजगत इति कुतो द्वये दृष्टिरस्माकं स्यादिति चेत् । नन्वेवं कथं तदात्मनोः शब्दार्थात्मनो व- २०. स्तादात्म्यमिति द्विवचनाभिधानं न विरोधमधिरोक्ष्यति । शब्दाद्भिनस्यार्थात्मनः कस्यचिदभावात् । अथ तदात्मनो भावस्तादात्म्यमित्यभिधीयते । नन्वत्रापि वक्तव्यं कस्यायमात्मा यदात्मनो भाव इति १ कश्चित्' इति प. पुस्तके तथा 'कश्चित्कदाचित्' इति म. पुस्तके पाठः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy