SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १० प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. ७ भाषसे । यदि शब्दस्य तदा तद्व्यतिरेकेणार्थाभावात् सर्वस्य शब्दमात्रत्वाच्छब्दार्थयोस्तादात्म्यमिति न न्यायसङ्गतम् । न हि देवदत्तवन्ध्यासुतयोस्तादात्म्यमित्यभिदधति सुधियः । अथार्थस्य तदाप्येतदेव दूषणम् । अर्थाद्वैतापत्त्या शब्दाद्वैताभावप्रसक्तिश्च । इति न ५ शब्दार्थयोस्तादात्म्यमिति शब्दार्थ उपपद्यते । अपि च शब्दार्थयोस्ता दात्म्यं प्रत्यक्षप्रतिक्षिप्तम् । चाक्षुषप्रत्यक्षं हि पटकुटादिपदार्थसाथै परिच्छिन्दत् शब्दाद्भिन्नमेव परिच्छिनत्ति । श्रोत्रप्रत्यक्षमपि शब्द साक्षात्कुर्वल्कुटादिभ्यो भेदेनैव साक्षात्करोति । अनुमानबाधितं च तत् । तथाहि । नास्ति शब्दार्थयोस्तादात्म्य भिन्नदेशत्वाद्भिन्नकालत्वाद्भिन्नाकारत्वाद्वा स्तम्भकुम्भवत् । न च भिन्नदेशत्वमसिद्धम् । कर्णकुहरे हि शब्दः समुपलभ्यते भूतलादौ त्वर्थः । अभिन्नदेशतायां त्वनयोः शब्दोपलब्धौ प्रमातुर्नार्थे प्रवृत्तिः स्यादस्ति चेयम् । तथाहि । अहो दिष्टया प्राप्तास्तदिह चरणाम्भोजरजसा . ___ पवित्रीकुर्वन्तः क्षितितलमिदं धर्मगुरवः । इति श्रुत्वा केऽपि प्रकृतसुकृतास्तत्प्रणतये प्रवर्तन्ते तूर्णं प्रकटपुलकालंकृतिभृतः ॥ ८१ ॥ भ्रान्तिमात्रमिति चेत् । धिरे धिक् त्वामपहस्तितोऽसि यदेतदपि भ्रान्ति भाषसे । नपत्र किञ्चित्प्रमाणमस्ति । अथास्त्येव प्रमाणं तयोस्तादात्म्यमिति चेत् । तदिदमसिद्धमसिद्धेन साधयन्नयं निर्मर्यादशिक्षणीयः परीक्षकाणामिति नासिद्धं शब्दार्थयोभिन्नदेशत्वम् । नापि भिन्नकालत्वं स्तम्भादिभावानाम् । तच्छब्देभ्यः पूर्वमपि तेषामुपलम्भात् । नापि भिन्नाकारत्वम् । तस्य शब्दार्थयोराबालमपि प्रसिद्धत्वादिति । अमुनाप्यनुमानेन बाध्यते तयोस्तादात्म्यम् । तथाहि । यो यत्साध्य १ धिक् ' इति नास्ति प. भ. पुस्तकयोः । २ 'शब्दो' इति भ. पुस्तके पाठः। "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy