SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ फरि. १ सू. ७ ] स्याद्वादरत्नाकरसहितः प्रयोजनं न निष्पादयति न स तेन तादात्म्यमनुभवति यथा रूपेण रसो न निष्पादयति च कृपाणप्रभृतिपदार्थसाध्यं प्रयोजनं कर्तनादिकं शब्द इति । न च शब्दस्य पदार्थप्रयोजनाप्रसाधकत्वमसिद्धम् । तत्त्वे कृपाणपाषाणादिशब्दसमुच्चारेण वक्रादीनां कर्त्तनाभिधातादिप्रसक्तेः । अथ यथा शब्दातिरिक्तार्थवादिनामतिनिशितनिष्ठुरधारा- ५ ग्रस्यापि मण्डलाग्रस्य यलेन वक्रावेशे विधीयमाने कर्तनादेरभावस्तवस्थाविशेषहेतुकत्वात्तस्य । तत्सत्तामात्रहेतुकत्वे तु न कश्चिद्कृन्तद्वक्रः स्यात्सत्तामात्रस्य सर्वान् प्रत्याविशिष्टत्वात्तथा शब्दाद्वैतवादिनां तच्छब्दोच्चारणेऽपि तदभावो भाविष्यति तत एवेति नोक्तदोषानुषङ्ग इति चेत् । मैवम् । शब्दातिरिक्तार्थवादिनां हि मते मण्डलायादी- १० नामवस्थानभेद उपपद्यते तद्व्यतिरिक्तभेदकभावात् । सन्ति हि पुरुषप्रयत्नादृष्टादयः खड्गादीनां भेदका इति । शब्दब्रह्ममात्रतत्त्ववादिनस्तु मते नास्ति शब्दब्रह्मव्यतिरिक्तं किञ्चिद्भेदकं नाम । न चैतद्वाच्यं स्वयमेवैतद्विचित्रस्वभावं शब्दब्रह्मेति । शब्दब्रह्मसम्बन्धिनः स्वभाव - स्यापि शब्दब्रह्ममात्रत्वात्तस्य च षुरुषप्रयत्नादिरूपतया विचित्रत्वा- १५ भावात् । विचित्रत्वे च जगद्वैचित्र्यस्वरूपस्यैव ब्रह्मेति नाम कृतं स्यादिति नासिद्धिः पदार्थप्रयोजनाप्रसाधकत्वसाधनस्येति । इतोऽप्यनुमानात् शब्दार्थयोस्तादात्म्यं बाध्यते । तथाहि । न शब्दार्थयोस्तादात्म्यं विभिन्नेन्द्रियजनितज्ञानग्राह्यत्वाद्रूपरसवत् । नानापि साधनमसिद्धिधूमितम् । न हि नायन विज्ञानं शब्दे प्रवर्तते रसादि- २० ज्ञानवत् । अन्यथेन्द्रियान्तरपरिकल्पनावैयर्थ्यम् । नायनविज्ञानस्यैव समस्तार्थग्राहकत्वप्रसक्तेः । नापि श्रौत्रं संवेदनं बाह्येवर्थेषु प्रवर्त्तत एंव इति न शब्दार्थयोस्तादात्म्यमिति प्रतिज्ञा श्रेयसी । शब्दप्रतीतावर्थस्य प्रतीयमानत्वादिति हेतुरप्यसिद्धः । केनचिद्विज्ञानेन शब्द १ 'चक्र' इत्यधिकं म. प. पुस्तकयोः । २ पदार्थसाथसाध्य ' इति प. म. पुस्तकयोः पाठः । ३ ' एव' इति नास्ति म. पुस्तके । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy