________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. १ सू. ७
संस्पर्शशून्येनापि पदार्थप्रतिपत्तेः । न खलु निखिलवस्तुवेदनानि समुल्लिखितशब्दान्येवेत्युक्तं प्राक् । अथाभिदधीथाः यथा सषुप्तावस्थायामनुपलक्ष्यमाणोऽपि सूक्ष्मः समस्ति बोधः प्रबुद्धावस्थायां तस्यैव स्थूलभावात् तथा त्वया शब्दसंस्पर्शशून्यत्वेनाभिमते ज्ञानेऽपि समस्त्येव ५ सूक्ष्मः शब्दः । कथमन्यथाऽसौ घटोऽयमित्युलेखेनोर्ध्वं स्थूलभावः भजेत् । तदप्यसङ्गतम् । सुषुप्तबोधदृष्टान्तावष्टम्भेन दान्तिकसिद्धेरत्र सविनत्वात् । न हि सुप्तादिबोधः सूक्ष्मः सन्नन्यूनातिरिक्तः प्रबुद्धा वस्थायां स्थूलो भवत्येकान्तैकरूपस्य तदन्यप्रतिबन्धककर्मणोऽभावेऽवस्थाभेदानुपपत्तेः । प्रतिबन्धक कर्मसद्भावे च तत्कृतश्चैतन्यक्रियानिषेधः १० तदभावे च तत्क्रिया । न चैवं शब्दात्माने किञ्चिदतिरिक्तमस्तीति न सूक्ष्मस्य स्थूलभावः । न खल्पचयकर्तृदलाभावे सूक्ष्मस्य सतः कस्यापि स्थूलतोपलब्धचरीति । किञ्च तज्ज्ञानैरुपगतः सूक्ष्मः शब्दः किं बोधरूप एव किंवा बोधातिरिक्तरूपः । यदि बोधरूपस्तर्हि कथमकाथ ' अनुविमिव ज्ञानं सर्वं शब्देन वर्त्तते' इति । बोधमात्रसद्भावेन शब्दानुवि१५ द्धत्वशब्दार्थानुपपत्तेः । आत्मनात्मानुवेधाभिधानस्यात्यन्तमसम्बद्धत्वात् । अथ बोधातिरिक्तरूपस्तर्हि तेन सूक्ष्मशब्देन बोधस्यानुवेधे समस्तवस्तुस्तोमस्यापि सूक्ष्मस्य तत्र सत्त्वापत्तिस्तस्य सूक्ष्मशब्दतादात्म्येनावस्थितत्वात् । अथ कोऽयं प्रसङ्गोऽभ्युपगम्यत एव हि मतौ सूक्ष्मोऽर्थ इति चेत् ।
९६
२०
कल्लोलिनीकाननकाञ्चनादिरत्नाकरैः कीर्णमिदं समस्तम् । ब्रह्माण्डमप्यस्ति मतौ सुसूक्ष्ममेतत्सखे जल्पति कस्त्वदन्यः ॥८२॥
अत्यन्तमलौकिकं ह्येतद्यद्बोधे सूक्ष्मोऽर्थ इत्यसिद्धं शब्दप्रतीतावे'वेत्यादिसाधनम् । वृक्षत्वाशिंशपात्वयोरिति निदर्शनमपि साध्यशून्यम् । तत्रैकान्ततादात्म्यस्यासम्भवात् । कथञ्चिद्भेदनिबन्धनस्य कथश्चितादा
१' प्रबोध ' इति म. पुस्तके पाठ: । २ ' रूप ' इति नास्ति म. पुस्तके |
" Aho Shrut Gyanam"