________________
परि. १ सु. ७]
स्याद्वादरत्नाकरसहितः
त्म्यस्यैवोपपत्तेः । वृक्षत्वशिंशपात्वे हि विशिष्टौ वस्तु कथञ्चिद्भेदाभेदवृत्ती नान्यथाऽनयोस्तादात्म्यम् । तदा हि यदि वृक्षत्वमेव शिशपात्वं शिशपात्वमेव वा वृक्षत्वं तदाऽनयोर्व्याप्यव्यापकभावाभावः स्यात् । प्रथमपक्षे धवाद्यभावप्रसंगस्तत्र वृक्षत्वस्य विद्यमानत्त्वात्तस्य च शिंशपात्वात् । अथ विशिष्टमेव वृक्षत्वं शिंशपात्वं तच धवादौ न विद्यते ५ कुतो धवाद्यभावप्रसङ्ग इति चेत् । ननु किमस्य विशेषणं यतो वैशिष्टथं स्यात् । शिंशपात्वमेवेति चेत् ! अहो अस्य तार्किकत्वं यच्छिशपात्वगोचर एव पर्यनुयोगे शिंशपात्वाविशिष्टं वृक्षत्वं शिंशपात्वमुच्यत इत्यभिधत्ते । अभिदधातु वा तथापि सिद्धं शिंशपात्वं कथञ्चिदन्यत् वृक्षत्वात् । अन्यथा तेन तस्य वैशिष्ट्यमि- १० त्युक्तेरेवायोगादिति साध्यविकलमुदाहरणम् । साधनविकलं च । न खलु शिंशपात्वप्रतीतावेव वृक्षत्वं वृक्षत्वप्रतीतावेव वा शिशपात्वं प्रतीयत इत्यवश्यम्भावः । धवादिषु शिंशपात्वप्रतीतिमन्तरेणापि वृक्षत्वस्य वृक्षत्वप्रतीतिमन्तरेणापि वा क्वचन शिंशपात्वस्य प्रतीतिसद्भावात् । तदेवं शब्दार्थयोस्तादात्म्यस्याप्रसिद्धेः कथमेतद्बोधार्थयोरपि सिद्धयेत् ।
इत्थं च बोधस्य विचार्यमाणं मुहुर्मुहुर्युक्तिसहस्रशोऽपि ॥ शब्दानुविद्धत्वमिदं कथञ्चिन्न नाम सम्यग्घटनामुपैति ॥ ८३ ॥
4119
" Aho Shrut Gyanam"
१५
एवं च यदवादि ' न सोऽस्ति प्रत्ययो लोक ' इत्यादि । तदपि व्यतिसृष्टादेशमवसेयम् । यदपि वाचस्त्रैविव्यमभ्यधायि । तदप्यस्माकं चातुर्विध्येन सम्मताया वाचः प्रकारत्रयमाकृप्य स्वकीयाभिधानदाने- २० नास्य नाटकोपाध्यायस्यैव नूतनार्थोपदर्शनं न पुनस्तत्त्वतः । तथाहि । द्रव्यभावभयाद्विधा वाग् द्रव्यवागपि मतोभयी सताम् ॥ द्रव्यपर्ययभिदादिमानयोः शब्दपुद्गल कदम्बकात्मिका ॥ ८४ ॥ कर्णकोटर कुटुम्बिनी पुनः प्रोच्यते निनदपर्ययात्मिका । वैखरीति कथयन्तु तां परे नाममात्र परिकल्पपण्डिताः ॥ ८५ ॥
२५
७