________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. १ सू. ७ भाववागपि मता मनीषिणां व्यक्तिशक्तिविधया द्विधा पुनः । व्यक्तिवागिह विकल्पिका मतिः श्रोत्रगम्यवचसां निबन्धनम् ॥८६॥ मध्यमेत्युपदिशन्ति तां पुनर्ये निवारयति कः सुधीरमून् । वस्तुतत्त्वघटनैकलम्पटः को हि नाम्नि कलहायते बुधः ।। ८७ ॥ वाम्वेदनावारककर्मनाशवशेन येयं भवतीह वक्तुः !
सा शक्तिरस्याः खलु भाववाचो वदन्तु पश्यन्त्यभिधानमन्ये ।।८८॥ . अपि च शब्दातिरिक्तभेदकवादिनो जैना एव वाचः प्रकारान् प्रदर्शयन्तः शोभन्ते। एकान्तेनैकरूपशब्दब्रह्मवादिनः पुनरमी तपस्विन
स्तदतिरिक्तभेदकदरिद्राः कथं वाक्त्रैविध्यं संवाहयिष्यन्ति न स्वरूपं १० भेदकमिति च पूर्वमेव प्रकटितम् । यदवाचि सकलमेवेदं वाच्यवाचकतत्त्वं शब्दब्रह्मण एव विवर्त
.. इत्यादि । तदपि नानवद्यम् । शब्दब्रह्मणः सकलं वाच्यवाचकतत्त्वं
शब्दब्रह्मविवर्तरूप- सद्भावे प्रमाणाभावात् । तथाहि तत्सद्भावः मिति मतस्य खण्डनम्। प्रत्यक्षेण प्रतीयतानुमानेनागमेन वा । यदि १५ प्रत्यक्षेण, तत्किमिन्द्रियप्रभवेणातीन्द्रियेण वा । तत्राद्यपक्षो न
समीचीनः । यतः सकलदेशकालार्थाकारनिकरकरम्बितस्वरूपं शब्दब्रह्म भवतामभिमतम् । एवंविधस्य चास्य सद्भावः किं श्रवणेन्द्रियप्रभवप्रत्यक्षेण प्रतीयेत तदितरेन्द्रियजनिताध्यक्षेण वा । न ताव
च्छूवणेन्द्रियप्रभवप्रत्यक्षेण । तस्य शब्दस्वरूपमात्रविषयतया स्वाविष२० येण सकलदेशकालाकारनिकरेणान्वितत्वं ब्रह्मणि प्रतिपत्तुमसमर्थ
त्वात् । तथाहि । यद्यदविषयं न तत्तेनान्वितत्वं कस्यचित्प्रतिपत्तुं समर्थं यथा चक्षुर्ज्ञानं रसेन । सकलदेशकालार्थाकारनिकराविषयं च श्रवणेन्द्रियप्रभवप्रत्यक्षमिति । तदविषयेणापि तेन तदन्वितत्वप्रतिपत्ता
वतिप्रसक्तिः । एतेन तदितरेन्द्रियजनिताध्यक्षेणापि तत्प्रतीतिः प्रति२५ क्षिप्ता । शब्दाविषयत्वेन तस्याः तत्प्रतीतावपर्याप्तत्वात् । तन्नेन्द्रिय
"Aho Shrut Gyanam"