________________
परि. १ सू. ७ ] स्याद्वादरत्नाकरसहितः प्रत्यक्षेण शब्दब्रह्मप्रतीतिः । नाप्यतीन्द्रियप्रत्यक्षेण । तस्यैवात्रासम्भवात् । योगिनां योगजं तत्सम्भवतीति चेत् । न । योगियोगतत्प्रभवप्रत्यक्षाणां सम्भवे सत्यद्वैताभावप्राप्तेः । न तत्प्राप्तिर्योग्यवस्थायामात्मज्योतीरूपस्यास्य स्वयं प्रकाशनादित्यपि बालप्रलपितम् । योग्यवस्थावज्योतीरूपं च स्वयं प्रकाशनं चेत्येवं लक्षणस्य त्रयस्य ५ सम्भवे सत्यद्वैताभावस्य तदवस्थत्वात् । अपि च योग्यवस्थायामतीन्द्रियप्रत्यक्षस्य ब्रह्मस्वरूपप्रकाशनस्वीकारे ततः प्राक्तद्रूपं प्रकाशते न वा ! यदि प्रकाशते, तदानीमनायासनिष्पन्नः सर्वदा सर्वेषां मोक्षः स्याज्योतिःस्वभावब्रह्मप्रकाशो हि मोक्षः स चायोग्यवस्थायामप्येवं प्रामुयात् । अथ न प्रकाशते, तदा तत्किमस्ति न वा। यदि नास्ति १० कथं तन्नित्यं कादाचित्कत्वादविद्यावत् । अथास्ति तर्हि कस्मान्न प्रकाशते । ग्राहकाभावादविद्याभिभूतत्वाद्वा । तत्र प्रथमपक्षो न क्षोदक्षमः । ब्रह्मण एव तद्ग्राहकत्वात् । तस्य च नित्यतया सदा सत्त्वात् । द्वितीयपक्षोऽपि न श्रेयान् । अविद्याया विचार्यमाणाया अनुपपद्यमानत्वात् ।
सा हि शब्दब्रह्मणः सकाशाद्भिन्ना भवेदभिन्ना वा । भिन्ना चेत् प्रसङ्गादविद्यायाः खण्ड- किमसौ वस्तु अवस्तु वा स्यात् । न तावद. नम्। ततः शब्दब्रह्मसाध- वस्तु, अर्थक्रियाकारित्वात् ब्रह्मवत् । तत्कारि
कानुमानादिविचारः। त्यस्या अवस्तत्वे ब्रह्मणोऽप्यवस्तुत्वप्रसङ्गः। अथार्थक्रियाकारित्वमप्यस्या नेष्यते तत्कथं वस्तुत्वापत्तिरित्यभिधीयते । २० हन्त कथमेवमविद्यया कलुषत्वमिवापन्नमित्यादि वचो घटेत । आकाशे च वितथप्रतिभासहेतुभूतं वास्तवमेव तिमिरहेतु प्रसिद्धमविद्यायाश्चावास्तवत्वेन ब्रह्मणि विचित्रप्रतिभासहेतुत्वानुपपत्तितो दृष्टान्तदार्टान्तिकयोः साम्यासम्भवाद्यथा विशुद्धमाकाशमित्याद्यपि दुरुपपादमेव । न चानाधेयापहेयातिशयस्य शब्दब्रह्मणोऽविद्यासामर्थ्या- २५
१. योगावस्थायां ' इत्युचितं भाति ।
"Aho Shrut Gyanam"