________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. ७ द्भेदेन प्रतिभासो ज्यायान् । अतिप्रसक्तेः । नाप्यवस्तुमाहात्म्यावस्तुनोऽन्यथाभावो भवति । अतिप्रसक्तेरेव । अथ वस्त्वविद्या, तन्न वाच्यमभ्युपगमहानिप्रसङ्गात् । ब्रह्माविद्यालक्षणवस्तुद्वितयप्राप्त्याद्वैताभावप्रसक्तेः । अथाभिन्ना, तदानीमविद्यायाः सत्यरूपतापत्तिः । सत्यरूपाद्ब्रह्मणः सकाशादभिन्नत्वात्तत्स्वरूपवत् । ततश्च कथमविधाया मिथ्यात्वप्रतीतिनिमित्तत्वं । ब्रह्मवदिति नास्त्यविद्या असत्या वा । न ज्योतिःस्वभावस्य ब्रह्मणः कथमप्यभिभवः कत्तुं शक्यते । ततोऽसत्त्वादेवायोग्यवस्थायामात्मज्योतिःस्वरूपस्य शब्दब्रह्मणोऽप्रकाशनं न
पुनरविद्याभिभूतत्वादिति । अयोगिदशायां तद्रूपस्य ब्रह्मणोऽसत्त्वे च १० योगिदशायामपि कुतः सत्त्वं स्याद्यतोऽतीन्द्रियप्रत्यक्षेण तत्प्रतीयेत ।
तन्न प्रत्यक्षेण शब्दब्रह्मणः सद्भावः प्रतीयते । नाप्यनुमानेन, तस्य तत्सद्भावावेदकस्य कस्यचिदसम्भवात् । अथास्त्येव ये यद्विकारानुस्यूतास्ते तन्मया यथा घटघटीशरावोदञ्चनादयो मृद्विकारा मृन्मयाः,
शब्दविकारानुस्यूताश्च सर्वे पदार्था इति । नैवमस्यानुमानाभासत्वात् । १५ तथाहि शब्दमयत्वमत्र कीदृशं साधयितुमभिप्रेतम् । शब्दपरिणामरूपत्वं
घटस्य मृन्मयत्ववत् , शब्दादुत्पन्नत्वं वा यथान्नमयाः प्राणा इति । तत्र न तावदाद्यः कल्पः कल्पयितुमुचितः । परिणामस्यैवात्रायोगात् । शब्दास्मकं हि ब्रह्म नीलादिरूपतां प्रतिपद्यमानं स्वाभाविक शब्दस्वरूपं परित्यज्य प्रतिपद्येतापरित्यज्य वा । आद्यपक्षे तस्यानादिनिधनत्वविरोधः । पौरस्त्यस्वरूपविनाशात् । द्वितीयपक्षे पुनर्नीलादिसंवेदनकाले बधिरस्यापि शब्दसंवेदनापत्ति लादिवस्त्वव्यतिरेकात्तत्स्वरूपवत् । शब्दस्वरूपस्यासंवेदने वा नीलादेरप्पसंवेदनप्रसङ्गस्तादात्म्याविशेषात् । अन्यथा विरुद्धधर्माध्यासतः शब्दस्य नीलादेः सकाशाद्भेदप्रसङ्गः । न येकस्यैक
२०
१ 'अयोगावस्थायां' इत्युचितं भाति । २ ' यदाकारा ' इति म. पुस्तके पाठः । ३ ' शब्दाकारा' इति म. पुस्तके पाठः । ४ ' पदार्थसार्था' इति म. पुस्तके पाठः।
"Aho Shrut Gyanam"