________________
परि. १ सू. ७ ] स्याद्वादरत्नाकरसहितः दैकप्रमात्रपेक्षया ग्रहणमग्रहणं च युक्तम् । विरोधात् । किञ्चासौ शब्दात्मा परिणामं प्रतिपद्यमानः प्रतिपदार्थं भेदं प्रतिपद्येत न वा । तत्राद्यकल्पे शब्दब्रह्मणोऽनेकत्वप्रसक्तिः । विभिन्नाऽनेकार्थस्वभावात्मकत्वात् तत्स्वरूपवत् । द्वितीयविकल्पे तु सर्वेषां नीलादीनां देशकालस्वभावव्यापारावस्थादिभेदाभावः प्रतिभासभेदाभावश्चानुषज्येत । एकस्वभावा- ५ च्छब्दब्रह्मणोऽभिन्नत्वात् स्वरूपवत् । तन्न शब्दपरिणामरूपत्वं शब्दमयत्वं । नापि शब्दादुत्पन्नत्वम् । तस्य नित्यत्वेनाविकारित्वादविकारिणश्च कार्योत्पादविरोधात् । किञ्च । कार्यमस्मादुत्पद्यमानमर्थान्तरमनन्तरं वोत्पद्येत । तत्रार्थान्तरस्योत्पत्तौ कथं शब्दब्रह्माद्वैतवादः । कार्यस्य ततो द्वितीयस्य सद्भावात् । अनर्थान्तरभूतस्य तु कार्यग्राम- १० स्योत्पत्तौ शब्दब्रह्मणोऽनादिनिधनत्वविरोधः । तदुत्पत्तौ तस्याप्यनर्थान्तरभूतम्योत्यद्यमानत्वादुत्पन्नस्य चावश्यं विनाशित्वादिति । अर्थानां शब्दमयत्वाघटनादसम्भवि साध्यम् । शब्दाकारानुस्यूतत्वं साधनमप्यसिद्धम् । प्रत्यक्षेण हि नीलादिकं प्रतिद्यमानः प्रतिपत्ता शब्दाकारासम्पृक्तमेव प्रतिपद्यत इति कथं शब्दाकारानुस्यूतत्वं सिद्धयेत् । किञ्च १५ शब्दाकारानुस्यूतत्वं शब्दानुविद्धत्वमभिधीयते । तच्चार्थानां न युक्तमिति प्रोक्तं प्राक् । ततोऽपि च कथमेतत्सिद्धयेत् । कल्पितत्वाञ्चास्यासिद्धिः । परमार्थतः शब्दाकारानुस्यूतत्वलक्षणधर्माधाराणा पदार्थानामसत्त्वेऽपि हि तेषु तदाकारानुस्यूतत्वं त्वया परिकल्प्यते परिकल्पिताच हेतोः कथं पारमार्थिकं ब्रह्म सिद्धयेत् । साध्यसाधनधर्मविक- २० लश्च दृष्टान्तः । कुम्भादीनामपि सर्वथैकमयत्वस्यैकाकारानुस्यूतत्वस्य चासिद्धेः । समस्तार्थानां समानासमानपरिणामात्मकत्वात् । तन्नानुमानेनापि शब्दब्रह्म समधिगन्तुं पार्यते । नाप्यागमेन, “ सर्व खल्विदं ब्रह्म' इत्याद्यागमस्य ब्रह्मणः सकाशादर्थान्तरभावे द्वैतसिद्धिप्रसङ्गात् ।
१ छां. उ. ३-१४.
"Aho Shrut Gyanam"