SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १०२ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. १ सू. ८,९,१०,११. अनर्थान्तरभावे तद्वदागमस्यापि आसिद्धिप्रसङ्गः । तन्न शब्दस्वभावस्य ब्रह्मणः सद्भावः कुतश्चित् प्रमाणादुपपद्यते । इत्थं शब्दब्रह्मणो दूषणौधं दर्श दर्श दूरमुज्जम्भमाणम् । नैवं श्रद्धां कोऽपि कुर्वीत विद्वान् शब्दात्मत्वे सर्वथा प्रत्ययानाम् ।।८९।। ५ यत्तावबुद्धशिष्यैर्निजसमयवशान्निर्विकल्पत्वमुक्तं प्रत्यक्षे तत्पुरैव प्रतिहतिपदवी प्रापितं सप्रपञ्चम् । शब्दानुस्यूतिरुक्ता मतिषु तदपर्यापि सापि व्यपास्ता तस्माज्ज्ञानं समस्तु व्यवसितिसुभगं मानतासम्मतं यत् ॥९०॥ ॥१॥ समारोपपरिपन्थित्वादियुक्तमिति समारोपस्वरूपनिरूपणायाह१० अतस्मिस्तदध्यवसायः समारोप इति ॥८॥ अतम्मिन्नतत्प्रकारे वस्तुनि । तदध्यवसायस्तत्यकारत्वनिश्चयो यः स समारोप इति ।। ८॥ अथास्य प्रकारानाह-- स विपर्यसंशयानध्यवसायभेदात् त्रेधेति ॥९॥ १५ स्पष्टम् ॥ ९॥ अथैतत्सूत्रनिर्देशक्रमेण विपर्ययस्वरूपमादौ निरूपयतिविपरीतैककोटिनिष्टंकनं विपर्यय इति ॥ १०॥ विपरिताया एकस्या एव कोटेरंशस्य निष्टङ्कनं निश्चयनं विपर्ययः॥१०॥ उदाहरणमाह--- २० यथा शुक्तिकायामिदं रजतमितीति ॥ ११ ॥ यथेत्युदाहरणोपन्यासार्थः । शुक्तिकायामरजताकारायामिदं रजतमिति रजताकारतया ज्ञानम्, विपर्ययो विपरीतख्यातिरित्यर्थः। इतिशब्द "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy