SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ परि. १ सू..] स्याद्वादरत्नाकरसहितः वासनाप्रतिबोधहेतुस्तहि समस्ताविद्यावासनाप्रलयात्प्रस्तुतं सुगतसंवेदनं सुतरां विकल्पवासनोबोधहेतुः सम्पद्यते । ततश्च । * विधूतकल्पनाजालगम्भीरोदारमूर्तये ।। नमः समन्तभद्राय समन्तस्फुरणत्विषे ॥१॥' - इति प्रमाणवार्तिकस्य प्रथमश्लोके विधूतकल्पनाजालेति विशेषणं ५ वन्ध्यास्तनन्धयसमानं प्रसज्येतेति । अथित्वमप्यभिलषितत्वं जिज्ञासितत्वं या। न तावत्प्रथमपक्षः परीक्षाक्षेत्रम् । कुत्रचिदनभिलषितेऽपि वस्तुनि दर्शनस्य वासनाप्रबोधकत्वदर्शनात्, चक्रकक्रकचपातप्रसङ्गश्च । अभिलषितत्वस्य वस्तुनिश्चयपूर्वकत्वात् । वस्तुनिश्चयस्य च वासनाप्रबोधपूर्वकत्वात्, वासनाप्रबोधस्य चाभिलषितत्वपूर्वकत्वात् , ततो यावन्न १० वस्तुनिश्चयस्तावन्नाभिलषितत्वं सिद्धयति यावन्नाभिलषितत्वं न तावद्वासनापबोधो यावच्च नायं न तावद्वस्तुनिश्चयो याचन्नासौ न तावदभिलपितत्वमिति । द्वितीयपक्षे तु क्षणक्षयादौ तद्वासनाप्रबोधप्रसक्तिः, नीलादाविवात्रापि जिज्ञासितत्वाविशेषात् । ननु यावन्मानं वस्त्वनुभूतं निर्विकल्पकेन यदि तावन्त एव निश्चये निर्विकल्पकवादिना प्रा- १५ वन्तीति प्रेयते तर्हि सविकल्पकप्रत्यक्षवादिनामपि प्रतिवाद्युपन्यस्तस्य समस्तव्यापिमानावर्णपादादेः स्वकीयोच्छासादिसङ्ख्यायाश्च विशेषेण स्मरणं प्रसंज्यते स्मरणकारणस्य निश्चयात्मनोऽनुभवस्य सर्वत्राविशेषात् । परमतमविदित्वा मूढ ताथागत त्वं प्रबलतरनिरूढाहंकृतिग्रस्तबुद्धिः ।। कृतरभसमिदानी स्पर्द्धसे सार्द्धमुद्य न्मतिविभवसमथुस्तीर्थनाथस्य शिष्यैः ॥ ७५ ॥ . १ प्रमाणसमुच्चयग्रन्थस्य धर्मकीर्तिना प्रमाणवातिकात्या टीका विरचिता। २' प्रसज्येत' इति म- पुस्तके पाठः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy