________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि १ सू.. तत्प्रबोधकत्वे क्षणक्षयादावपि तत्प्रबोधकत्वानुषक्तेः ।। तत्राभ्यासप्रकरणपाटवार्थित्वाभावान्न दर्शनं वासनायाः प्रबोधकमिति चेत् । ननु कोऽयमभ्यासो नाम । भूयो दर्शनं बहुशो विकल्पोत्पत्तिर्वा । न तावद्भूयो
दर्शनम्, तस्य नीलादाविव क्षणक्षयादावपि विशेषणभावात् । अथ बहुशो ५ विकल्पोत्पत्तिरभ्यासस्तस्य क्षणक्षयादिदर्शनस्य विकल्पवासनाप्रबोध
कत्वाभावेनाभावानर्हि परस्पराश्रयप्रसङ्गः । तथाहि सिद्धे क्षणक्षयादौ दर्शनस्य विकल्पवासनाप्रबोधकत्वाभावे बहुशो विकल्पोत्पत्तिस्वभावाभ्यासस्याभावसिद्धिस्तत्सिद्धौ चास्य सिद्धिरिति । क्षणिकाक्षणिक
विचारणायां क्षणिकप्रकरणमप्यस्त्येव । पाटवं पुनर्नीलादौ दर्शनस्य किं १० विकल्पोत्पादकत्वं स्फुटतरानुभवोऽविद्यावासनाविनाशादात्मलाभो वा
भवेत् । प्रथमपक्षेऽन्योन्याऽश्रयप्रसक्तिः । सिद्धे हि नीलादौ दर्शनस्य विकल्पोत्पादकत्वस्वरूपे पाटवे वासनाप्रबोधकत्वसिद्धिस्तत्सिद्धौ च विकल्पोत्पादकत्वस्वरूपपाटवसिद्धिरिति । द्वितीयपक्षे पुनः क्षणक्षयादावपि वासनाप्रबोधकत्वसिद्धिः स्फुटतरानुभवस्वभावस्य पाटवस्थात्रापि विद्यमानत्वात् । तृतीयपक्षोऽप्युपेक्षणीयः परीक्षकाणाम् । तुच्छस्वभावस्थाविद्यावासनाविनाशस्यानभ्युपगमात् कथं तस्मादात्मलाभलक्षणं नीलादौ दर्शनस्य पाटवं घटेत । अथ दर्शनस्योत्पादकानि यानि कारणानि तत्स्वभावोऽविद्यावासनाविनाशः स्वीक्रियते तस्माश्चात्मलाभलक्षणं पाटवं सुघटमेव दर्शनस्य । नन्वेवंविधपाटवस्य विशेषाभावाद्यथा तद्वशान्नीलादौ दर्शनस्य विकल्पवासनाप्रबोधकत्वं तथा क्षणक्षयादौ किन्न स्यात् । न चैकस्यैव दर्शनस्य नीलादिविकल्पवासनाप्रबोधकत्वं प्रति पाटवं क्षणक्षयादिविकल्पवासनाप्रबोधकत्वं प्रति पुनरपाटवमिति प्रकटयितुं पटीयसां समुचितम् । विरुद्धधर्माध्यासतो
दर्शनस्य भेदप्रसङ्गात् । तथा च ताथागतानां राद्धान्तः । अयमेव हि २५ भेदो भेदहेतुर्वा यदुत विरुद्धधर्माध्यासः कारणभेदश्च ' इति ।
किञ्च । यद्यस्मदादीनामप्यविद्यावासनांशविनाशादाविर्भूतं दर्शनं विकल्प
"Aho Shrut Gyanam"